________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[१११३ तस्मिन्नपि प्रमाणे सति विभङ्गज्ञानमपि अक्षमेव आत्मानमेव प्रतिनियतम् , तेन कारणेन विभङ्गज्ञानस्यापि प्रमाणत्वेन ग्रहणं प्राप्नोति; तदपि न प्रमाणम् ; सम्यगित्यधिकारात् । कासौ सभ्यगधिकारो वर्त्तते ? "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [त० सू० १३१] इत्यत्र सूत्रे सम्यक्शब्दस्य ग्रहणमस्ति, तेन कारणेन विभङ्गज्ञानस्य प्रमाणत्वे(त्व)प्रतिषेधः । ५ तेन सम्यक्शब्देन विशेषणभूतेन ज्ञानं विशिष्यते, तेन कारणेन विभङ्गज्ञानस्य निषेधः कृतो
भवति, न प्रमाणमित्यर्थः । विभङ्गज्ञानं हि मिथ्यादर्शनोदयाद्विपरीतार्थगोचरम् , तेन कारणेन तन्न सम्यग्विशेषेण विशिष्टम् । अथैवं त्वं मन्यसे 'इन्द्रियव्यापारजनितं ज्ञानं खलु प्रत्यक्षम् , प्रतीन्द्रियव्यापारं ज्ञानं परोक्षमेतत् एतत्प्रत्यक्षपरोक्षयोर्लक्षणमक्षुण्णं वेदितव्यमिति ; तन्न
संगच्छते; तथा सति सर्वज्ञस्य प्रत्यक्ष ज्ञानाभावो भवति । यदि इन्द्रियनिमित्तमेव ज्ञानं प्रत्यक्षं १० त्वया मन्यते तथा सति सर्वज्ञस्य प्रत्यक्षज्ञानमेव न स्यात् । न हि सर्वज्ञस्य इन्द्रियपूर्वोऽर्थाधिगमो भवति । अथ सर्वज्ञस्य करणपूर्वकमेव ज्ञानं त्वया कल्प्यते; तर्हि सर्वज्ञस्य असर्वज्ञत्वं भवेत् । अथ सर्वज्ञस्य मानसं ज्ञानं प्रत्यक्षमिति त्वं मन्यसे मनःप्रणिधानपूर्वकत्वात् ; तर्हि ज्ञानस्य सर्वज्ञत्वाभावो भवति । आगमात् सर्वज्ञस्य सिद्धिरिति चेत् ; तदपि न ; आगमस्य
प्रत्यक्ष ज्ञानपूर्वकत्वात् । योगिप्रत्यक्षमपरमेव दिव्यज्ञानमस्तीति चेत् त्वं मन्यसे; तदपि न १५ घटते; योगिनः प्रत्यक्षत्वमिन्द्रियनिमित्ताभावाद्भवति 'अक्षमक्षं प्रति यद्वर्तते तत्प्रत्यक्षम्' इत्यभ्युपगमात् । किन सर्वज्ञत्वाभावः प्रतिज्ञाहानिर्वा तव भवति । अलमतिप्रसङ्गेन ।
अथेदानी परोक्षज्ञानस्य विशेषपरिज्ञानार्थ सूत्रमिदमाहुःमतिः स्मृतिः संज्ञा चिन्ताऽभिनिवोध इत्यनर्थान्तरम् ।। १३ ॥
मननं मतिः । स्मरणं स्मृतिः। संज्ञानं संज्ञा । चिन्तनं चिन्ता । अभिनिबोधनं अभि२० निबोधः । इति एवंप्रकारा मतिज्ञानस्य पर्यायशब्दा वेदितव्याः । एते शब्दाः प्रकृत्या भेदेऽपि
सति रूढिबलान्नार्थान्तरम् , मतिज्ञानार्थ एवेत्यर्थः । यथा 'इन्दतीति इन्द्रः, शक्नोतीति शक्रः, पुरं दारयतीति पुरन्दरः' इत्यादीन्दनादिक्रियाभेदेऽपि शचीपतिरेवोच्यते तथा समभिरूढनयापेक्षया, अर्थान्तरे सत्यपि मतिमतिज्ञानमेवोच्यते, मतिज्ञानावरणक्षयोपशमे
अन्तरङ्गनिमित्ते सति जनितोपयोगविषयत्वात् । एतेषां मतिज्ञानभेदानां श्रुतादिष्वप्रवृत्तिर्वर्तते। २५ मतिज्ञानावरणक्षयोपशमनिमित्तोपयोगं नातिकामन्ति । मतिस्मृतिसंज्ञाचिन्ताऽभिनिबोधादि.
भिर्योऽर्थोऽभिधीयते स एक एवेत्यर्थः । तथापि भेद उच्यते । बहिरङ्गमन्तरङ्गञ्चार्थ परिस्फुटं 'य आत्मा मन्यते सा अवमहेहाऽवायधारणात्मिका मतिरुच्यते । स्वसंवेदनमिन्द्रियज्ञानञ्च सांव्यवहारिकं प्रत्यक्षम् । 'तत्' इति अतीतार्थप्राहिणी प्रतीतिः स्मृतिरुच्यते । तदेवेदं, तत्सह
. १ ज्ञानेऽपि । २ अर्थैकत्वम् मा०, ब०, ज० । आद्यैकत्वम् द० । ३ तथा सर्व-आ०, २०, ब०, ज० । ४ तुलना-स० सि० १।१२ । ५-दं प्राहुः भा०, ब०, २०, ज० । ६ सत्यपि मतिज्ञानआ०, २०, व०, ज०।७-भेदेन आ० द०, ५०, ज०। ८-बोधास्तैोऽयों-आ०, २०, ब०, ज० । ९ यथा भा०, ५०, ६०, ज ।
For Private And Personal Use Only