________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१।११-१२]
प्रथमोऽध्यायः प्रकाशकमित्यवगन्तव्यम् । अवश्यमेव चेदमङ्गीकर्तव्यम् । किंवत् ? प्रमेयवत्। यथा प्रमेयं वर्तते तथा प्रमाणमस्ति । यदि प्रमाणस्य प्रमाणान्तरं परिकल्प्यते तर्हि स्वाधिगमस्याभावो भवति, प्रमाणं निजस्वरूपं न जानाति । तथा सति 'स्मृतेरभावः स्यात् , स्मृतेरभावात् व्यवहारविच्छेदो भवेत् ।
'आधे परोक्षम् । प्रत्यक्षमन्यत्' इति वक्ष्यमाणभेदापेक्षया द्विवचननिर्देशो वेदि- ५ तव्यः । स च द्विवचननिर्देशोऽपरप्रमाणसंख्याविच्छेदार्थः।
"प्रत्यक्षश्चानुमानश्च शाब्दश्चोपमया सह ।
अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥१॥" [षड्द० समु० श्लो० ७०] इति श्लोकोक्तोपमानार्थापत्तिप्रभृतीनां प्रत्यक्षपरोक्षप्रमाणद्वयेऽन्तर्भावात्।।
अथ प्रागुक्तपञ्चविधज्ञानस्य प्रमाणद्वयान्तःपतितस्य अनुमानादिप्रमाणकल्पनानिरासार्थं १० प्रमाणयोर्भेदमाह
आये परोक्षम् ॥ ११ ॥ आदौ भवमाद्यम् । आद्यश्च आद्यश्च आये । मतिज्ञानश्रुतज्ञाने द्वे परोक्षं प्रमाणं भवति । 'आये' इत्युक्ते प्रथमे । मतिश्रुतयोः प्रथमत्वं कथम् ? सत्यम् ; प्रथम मतिज्ञानं तन्मुख्यम् , तस्य समीपवर्तित्वादुपचारेण श्रुतमपि प्रथममुच्यते । द्विवचन निर्देशसामर्थ्यात् १५ गौणस्यापि श्रुतज्ञानस्य आद्यत्वेन ग्रहणं वेदितव्यम् । एतत् ज्ञानद्वयं परोक्षं प्रमाणं कस्मादुच्यते ? इन्द्रियानिन्द्रियाणि पराणि प्रकाशादिकं च, आदिशब्दाद् गुरूपदेशादिकश्च परम् , मतिश्रुतज्ञानावरणक्षयोपशमश्च परमुच्यते, तत्परं बाह्यनिमित्तमपेक्ष्य अक्षस्यात्मनः उत्पद्यते यत् ज्ञानद्वयं तत्परोक्षमित्युच्यते, "तदिन्द्रियानिन्द्रियनिमित्तम्" [त. सू० १११४ ] "श्रुतमनिन्द्रियस्य" [ त० सू० २।२१] इति वचनात् । उपमानमागमादिकं च प्रमाणं २० परोक्ष एव प्रमाणेऽन्तर्भूतं ज्ञातव्यमिति । अथ किं प्रत्यक्षं प्रमाणमिति प्रश्ने सूत्रमिदमुच्यते
प्रत्यक्षमन्यत् ॥ १२ ॥ अक्ष्णोति व्याप्नोति जानाति वेत्तीत्यक्ष आत्मा तमक्षमात्मानमवधिमनःपर्य्ययापेक्षया परिप्राप्तक्षयोपशम केवलापेक्षया प्रक्षीणावरणं वा प्रतिनियतं प्रतिनिश्चितं प्रत्यक्षम् । अन्यत् २५ अवधिमनःपर्ययकेवलज्ञानत्रयं प्रत्यक्षं प्रमाणं भवति।।
अत्राह कश्चित्-अवधिदर्शनं केवलदर्शनमपि अक्षमेव आत्मानमेव प्रतिनियतं वर्तते, तेन कारणेन तदपि प्रत्यक्षं वक्तव्यम् ; सत्यम् ; ज्ञानमित्यनुवर्त्तते । कस्मिन् प्रस्तावे ज्ञानमित्यनुवर्तते ? “मतिश्रतावधिमनःपर्ययकेवलानि ज्ञानम्" [त० सू० १।९ ] इत्यत्र सूत्रे ज्ञानस्य ग्रहणं वर्तते, तेन कारणेन दर्शनस्य व्युदासः । दर्शनं न प्रत्यक्षं प्रमाणमित्यर्थः । ३०
१ स्मृतेन भावः ता० । २ कस्मिंश्चित् आ०, २०, ब०, ज० ।
For Private And Personal Use Only