________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
तत्त्वार्थवृत्ती
[ ११० तत्प्रमाणे ॥ १० ॥ तत् मतिश्रुतावधिमनःपर्यायकेवललक्षणं पञ्चविधं ज्ञानं द्वे प्रमाणे भवतः न सन्निकर्षः प्रमाणम् , नाऽपीन्द्रियं प्रमाणमित्यर्थः। 'यदि सन्निकर्षः प्रमाणम् ; तर्हि सूक्ष्माणां व्यवहितानां विप्रकृष्टानाचार्थानां ग्रहणाप्रसङ्गः स्यात् । ते सूक्ष्मा व्यवहिता विप्रकृष्टाश्चाऽर्था ५ इन्द्रियः सन्निक्रष्टु न शक्यन्ते । तेन तु सर्वज्ञत्वस्याभावः२ स्यात् । तत्कथम् ? यदिन्द्रियैर्न
सनिकृष्यते तन्न ज्ञायते, तेन सर्वज्ञाभावो भवेत् । इन्द्रियमपि प्रमाणं न भवति, उक्तदोषत्वादित्यर्थः । चतुरादीनां विषयो हि अल्पः, ज्ञेयं तु अनन्तत्वादपरिमाणं यतः । सर्वेषामिन्द्रियाणां सन्निकर्षाभावश्च वर्तते । कस्मात् ? चक्षुर्मनसोरप्राप्यकारित्वात् ।
"न चक्षुरनिन्द्रियाभ्याम् [त० सू० १११९] इति वचनाच । १० यदि ज्ञानं प्रमाणं तर्हि फलाभावः । अधिगमो हीष्टं फलं वर्तते, न भावान्तरम् ।
स चेत् अधिगमः प्रमाणम् ; न तस्याधिगमस्यान्यत्फलं भवितुमर्हति । प्रमाणेन च फलवता भवितव्यम् । सन्निकर्षे इन्द्रिये वा प्रमाणे सति अधिगमोऽर्थान्तरभूतः फलं युज्यते ; तन्न युक्तम् ; यदि सन्निकर्षः प्रमाणमर्थाधिगमः फलं तस्य' प्रमाणस्य दुष्ट (द्विष्ठ) त्वात्
तत्फलभूतेन अधिगमेनाऽपि दुष्टेन (द्विष्ठेन) भवितव्यम् । कथं द्विष्ठोऽधिगमः ? १५ अर्थाधीनो यतः। आत्मनश्चेतनत्वात् तत्रैव आत्मनि समवाय इति चेत् ; न; ज्ञस्वभावा
भावे ज्ञायकस्वभावाभावे सर्वेषामर्थानामचेतनत्वात् । ज्ञस्वभावाभ्युपगमो वा आत्मनो भवतु ; तर्हि प्रतिज्ञाहानिस्तव भवति, तेषामचेतनत्वात् । ननु चोक्तं ज्ञाने प्रमाणे सति फलाभाव इति यदाहतेनोक्तं तन्नैष दोषः ; अर्थाधिगमे प्रीतिदर्शनात् । ज्ञस्वभावस्यात्मनः
कर्ममलीमसस्य 'करणालम्बनात् अर्थनिश्वये सति प्रीतिरुपजायते । सा प्रीतिः फलमुच्यते । २० अथवा उपेक्षा अज्ञाननाशो वा फलम्। का उपेक्षा ? रागद्वेषयोरप्रणिधानमुपेक्षा । अन्धकारसदृशाज्ञानाभावः, अज्ञाननाशो वा फलमित्युच्यते ।
प्रमिणोतीति प्रमाणम् । “कृत्ययुटोऽन्यत्रापि च"[कात० ४।५।९२] इति कर्तरि युट । प्रमीयते अनेनेति प्रमाणम् । “करणाधिकरणयोश्च" [ कात० ४।५।९५] इति करणे
युट् । प्रमितिमात्रं वा प्रमाणम् । भावे युट् । इति व्युत्पत्तौ परवाद्याह-किमनेन प्रमीयते ? २५ जैनः प्राह-जीवाद्यर्थः । यदि जीवादेरधिगमे प्रमाणं वर्तते तर्हि प्रमाणाधिगमे अन्यत्प्रमाणं
परिकल्प्यताम् । तथा सति अनवस्था भवति । जैनः प्राह-नावानवस्था वर्तते । किंवत् ? प्रदीपवत् । यथा घटपटलकुटस्तम्भादीनां प्रकाशने प्रदीपो हेतुर्भवति तथा स्वस्वरूपप्रकाशनेऽपि स एव प्रदीपः हेतुर्भवति, न प्रदीपस्य प्रकाशने प्रकाशान्तरं विलोक्यते । एवं प्रमाणमपि स्वपर
१ द्रष्टव्यम्-स० सि. ११०। २-भावात् ज०, आ०, द०, २० । ३ यतः मा०, द०, ब०, ज०। ४ भवेत् आ०, द०, ब०, ज०। ५-रम् चेत् आ०, द०, २०, ज०। ६ "तस्य द्विष्ठत्वात् तत्फलेनाधिगमेनापि द्विष्ठेन भवितव्यमिति अर्थादीनामधिगमः प्राप्नोति ।" -स० सि० १।१० । ७-भावाभावे सर्वे-आ०, द०, ब०, ज०। ८-भ्युपगमे आ०, द० ब०, ज०। ९ कारणा-आ०, द०, ब० ।
For Private And Personal Use Only