________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९]
प्रथमोऽध्यायः बन्धसंवरनिर्जरमोक्षास्तत्त्वम्" इति संज्ञा। अस्यैव सूत्रस्य वृत्तौ जीवादीनां निरुक्तिद्वारेण परिणामादि वेदितव्यम् । अथ सम्यग्ज्ञानं विधार्यते
मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ॥९॥ इन्द्रियर्मनसा च यथायथमर्थान् मन्यते मतिः । मनुतेऽनया वा मतिः । मननं वा मतिः । ५ श्रुतज्ञानावरणकर्मक्षयोपशमे सति निरूप्यमाणं श्रूयते यत्तत् श्रुतम् । शृणोत्यनेन तदिति वा श्रुतम् । श्रवणं वा श्रुतम् । अवाग्धानं अवधिः । कोऽर्थः १ अधस्ताद बहुतरविषयग्रहणादवधिरुच्यते । देवाः खलु अवधिज्ञानेन सप्तमनरकपर्य्यन्तं पश्यन्ति, उपरि स्तोकं पश्यन्ति, निजविमानध्वजदण्डपर्यन्तमित्यर्थः । अवच्छिन्नविषयत्वाद्वा अवधिः। कोऽर्थः १ रूपिलक्षणविवक्षितविषयत्वाद्वा अवधिः। परकीयमनसि स्थितोऽर्थः साहचर्यात् मन इत्युच्यते । तस्य १० पर्ययणं परिगमनं परिज्ञानं मनापर्ययः । ननु तन्मतिज्ञानमेष; तन्न; अपेक्षामात्रस्यात्, क्षयोपमशक्तिमात्रविजृम्भितं तत्केवलं स्वपरमनोभिर्व्यपदिश्यते, यथा अभ्र चन्द्रमसं पश्येति, तथा मनसि मनःपर्ययः, अभ्र व्यापि "मनोव्यापि । यन्निमित्तं बाह्येन अभ्यन्तरेण च तपसा मुनयो मार्ग केवन्ते सेवन्ते तत् केवलम् । असहायत्वाद्वा केवलम् ।
प्रान्ते लभ्यते यतस्तदर्थं केवलस्य अन्ते ग्रहणम् । मनःपय॑यस्य समीपे केवलज्ञानं १५ प्राप्यते तेन मनःपर्यायस्य समीपे केवलस्य ग्रहणम् । अनयोः प्रत्यासत्तिः कस्मात् ? संयमैकाधिकरणत्वात् । यथाख्यातचारित्रत्वादित्यर्थः । केवलज्ञानस्य अवधिदूंरतरवर्ती कृतः । तत्किमर्थम् ? दूरतरान्तरत्वात् । अवधिमनःपर्यायकेवलज्ञानत्रयात् परोक्षज्ञानं मतिश्रुतद्वयं पूर्व किमर्थमुक्तम् ? तस्य द्वयस्य *सुप्रापत्वात् । मतिश्रुतानुपरिपाटी हि श्रुतपरिचिताऽनुभूता वर्त्तते, सर्वेण प्राणिगणेन तवयं प्रायेण प्राप्यते । मतिश्रुतपद्धतेः वचनेन श्रुतायाः २०. सकृत्स्वरूपसंवेदनमात्रं परिचितत्वमुच्यते । अशेषविशेषतः पुनः पुनश्चेतसि तत्स्वरूपपरिभावनमनुभूतत्वं कथ्यते । मतिश्च श्रुतश्च अवधिश्च मनःपर्ययश्च केवलश्च मतिश्रुतावधिमनापर्ययकेवलानि। एतानि पञ्च शानं भवतीति वेदितव्यम् । एतेषां भेदा अग्रे वक्ष्यन्ते ।
अथ "प्रमाणनयैरधिगमः" इति सूत्रं यत्पूर्वमुक्त१० तत्र प्रमाणं ज्ञानमिति केचन' १ मन्यन्ते । केचित्तु १२ सन्निकर्षः प्रमाणमिति मन्यन्ते । सन्निकर्ष इति कोऽर्थः ? १३इन्द्रियं २५. विषयश्च तयोः.सम्बन्धः सन्निकर्षः । तदुभयमपि निराकर्तुम् अधिकृतानामेव मत्यादीनां प्रमाणत्वसूचनार्थ सूत्रमिदमाहुः१४
१० सू० १।४ । २ अवधानम् आ०, २०, ५०, ज० । ३ साहचर्यान्मन्यते मनः आ०, १०, ब०, २०, ज० । ४ परिणमनम् मा०, ५०, ६०, ज० । ५ मनोऽपि व्यापि ता०। ६ दूरतरत्वात् मा०, २०, ५०, ज०। ७ सुप्राप्यत्वात् आ०, ब०, ६०, ज०। ८-पाटी श्रुत-आ०, २०, ब०, २०, ज०। ९ ज्ञानानि भवन्तीति आ०, द०, ५०, ज०। १० पृ०८। ११.बौद्धादयः । १२ नैयायिकादयः । १३ इन्द्रियविषयः तदु-ता० । १४ -दं प्राहुः आ०,०, २०, ज० ।
For Private And Personal Use Only