SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्स्वार्थवृत्तौ [१।८ संख्येयगुणाः १२९९०। सयोगिकेवलिनः संख्येयगुणाः ८९८५०२। अप्रमत्तसंयताः संख्येयगुणाः २९६९९१०३ । प्रमत्तसंयताः संख्येयगुणाः ५९३९८२०६ । संयताऽसंयताः संख्येयगुणाः, तिर्यामनुष्यापेक्षया। सासादनसम्यग्दृष्टयोऽसंख्येयगुणाः। सम्यग्मिध्यादृष्टयोऽसंख्येयगुणाः। मिथ्यादृष्टयोऽसंख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः। ५ भव्यानुवादेन भव्यानां सामान्यवत् । अभव्यानामल्पबहुत्वं नास्ति । सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिषु सर्वतः स्तोकाश्चत्वार उपशमकाः । इतरेषां ४प्रमत्तान्तानां सामान्यवत् । ततः संयताऽसंयताः संख्येयगुणाः । असंयतसम्यग्दृष्टयोऽस ङ्ख्येयगुणाः। "क्षायोपशमिकसम्यग्दृष्टिषु सर्वतः स्तोकाः अप्रमत्ताः । प्रमत्ताः सङ्ख्येयगुणाः । संयताऽसंयता असङ्ख्येयगुणाः, तिय्यंगपेक्षया । असंयतसम्यग्दृष्टयोऽसङ्ख्येय१० गुणाः। औपशमिकसम्यग्दृष्टीनां सर्वतः स्तोकाश्चत्वार उपशमकाः। अप्रमत्ताः सङ्ख्येय गुणाः । प्रमत्ताः सङ्ख्येयगुणाः । संयताऽसंयताः असङ्ख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसङ्ख्येयगुणाः । शेषाणां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां नास्त्यल्पबहुत्वम् , विपक्षे एकैकगुणस्थानग्रहणात् । कोऽर्थः ? मिथ्यादृष्टिः सासादनो न भवति, सासादनसम्यग्दृष्टिस्तु मिध्यादृष्टिर्न भवति यतः। १५ संज्ञानुवादेन संझिनां चक्षुर्दर्शनिवत् । चक्षुर्दर्शनिनां काययोगिवत् । काययोगिनां सामान्यवदित्यर्थः । असंझिनां नास्त्यल्पबहुत्वम् । ये न संज्ञिनो नाऽप्यसंज्ञिनस्तेषां केवलज्ञानिवत् । "आहारानुवादेन आहारकाणां काययोगिवत् । अनाहारकाणां सर्वतः स्तोकाः सयोगकेवलिनः अयोगकेवलिनः ' सङ्ख्येयगुणाः । सासादनसम्यग्दृष्टयोऽसङ्ख्येयगुणाः । असंयत सम्यग्दृष्टयोऽसङ्ख्येयगुणाः। मिथ्यादृष्टयोऽनन्तगुणाः । एवं गुणस्थानानां गत्यादिषु मार्ग२० णाऽन्वेषणा कृता । सामान्येन तत्र सूक्ष्मभेदः आगमविरोधेनानुसर्तव्यः ।। ___ एवं सम्यग्दर्शनस्य प्रथमत उद्दिष्टस्य "तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" इत्यनेन'' सूत्रेण तस्य-सम्यग्दर्शनस्य लक्षणोत्पत्तिस्वामिविषयन्यासाधिगमोपाया निर्दिष्टाः । "तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" इति लक्षणम् । "तनिसर्गादधिगमाद्वा" १२इत्यनेनोत्पत्तिः । सम्यग्दर्शनस्वामिनो जीवाऽजीवादिपदार्थाः सम्यग्दर्शनस्य विषयः । "नामस्थापनाद्रव्य२५ भावतस्तन्न्यासः" "प्रमाणनयैरधिगमः" "निर्देशस्वामित्वसाधनाधिकरणस्थि तिविधानतः" इत्यनेन सूत्रेण अधिगमस्योपायः सम्यक्त्वप्राप्त्युपायः । तथा "सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च" इति "सम्यक्त्वस्याधिगमोपायः । तत्सम्बन्धेन च सम्यग्दर्शनसम्बन्धेन जीवादीनां संज्ञापरिणामादि निर्दिष्टम् । “जीवाऽजीवास्रव १३१३६ सा० । २ षह्म० अ० ३२८-३२९ । ३ षट्खं० अ० ३३०-३५४ । ४ प्रमत्तानाम् आ०। ५क्षायोपशमिकाः सम्य-आ०, द०, ब०, ज०। ६ षट्खं० म० ३५५-३५७ । ७ -दर्शनवत् भा० । ८ षट्खं० अ०३५८-३८२ १९-केवलिनश्च ०, २०, ब०,ज० । १० अनुकर्तव्यः व० । ११. त०सू० १।२ । १२ त० सू० १।३ । १३ व० ० ११५-७ । १४० सू० १३८ । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy