SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५ १८] प्रथमोऽध्यायः कषायानुवादेन क्रोधमानमायाकषायाणां पुंवेदवत् । अयं तु विशेषः। मिथ्यादृष्ट्योऽनन्तगुणाः । लोभकषायाणां द्वयोरुपशमकयोस्तुल्यसंख्याः । ततो द्वयोः बहवः। क्षपकाः संख्येयगुणाः सूक्ष्मसाम्परायेषु ह्यु पशमकसंयता विशेषाधिकाः । सूक्ष्मसाम्परायक्षपकाः संख्येयगुणाः। शेषाणां सामान्यवत् । "ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । मिथ्या- ५ दृष्टयोऽनन्तगुणाः। विभङ्गज्ञानिषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः। मिथ्यादृष्टयोऽसङ्ख्येयगुणाः मतिश्रुतावधिज्ञानिषु सर्वतः स्तोकाश्चत्वार उपशमकाश्चत्वारः क्षपकाः सङ्ख्येयगुणाः । अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । संयतासंयता असङ्ख्येयगुणाः, तियंगपेक्षयेत्यर्थः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः, देवनारकतिर्यग्मनुष्यापेक्षया । मनःपर्ययज्ञानिषु सर्वतः स्तोकाश्चत्वार उपशमकाः । चत्वारः क्षपकाः सङ्ख्ये- १० यगुणाः । अप्रमत्ताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः। केवलज्ञानिषु ६अयोगकेव- . लिभ्यः सयोगकेवलिनः सङ्ख्येयगुणाः। तत्कथम् ? अयोगकेवलिनः एको वा द्वौ वा त्रयो वा उत्कर्षेण अष्टोत्तरशतसंङ्ख्याः । स्वकालेन समुदिताः सङ्ख्येयाः । तेभ्यः सङ्ख्येयाः सयोगकेवलिनः ८९८५०२ । ____ 'संयमानुवादेन सामायिकच्छेदोपस्थापनशुद्धिसंयतेषु द्वयोरुपशमकयोस्तुल्यसङ्ख्याः । १५ ततः सङ्ख्येयगुणाः क्षपकाः। अप्रमत्ताः सङ्ख्येयगुणाः। प्रमचाः सङ्ख्येयगुणाः । परि- ... हारशुद्धिसंयतेषु अप्रमत्तेभ्यः प्रमत्ताः सङ्ख्येयगुणाः । सूक्ष्मसाम्परायशुद्धिसंयतेषु उपशमकेभ्यः क्षपकाः सङ्ख्येयगुणाः। यथाख्यातविहारशुद्धिसंयतेषु उपशान्तकषायेभ्यः क्षीणकषायाः सङ्ख्येयगुणाः । अयोगकेवलिनस्तावन्त एव, उपशान्तकषायेभ्यः सङ्ख्येयगुणा इत्यर्थः। सयोगकेवलिनः सङ्ख्येयगुणाः । संयताऽसंयतानां नास्त्यल्पबहुत्वम् । असंयतेषु २० सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः। सम्यग्मिध्यादृष्टयः सङ्ख्येयगुणाः । असंयतसम्याहट्रयोऽसङ्ख्येयगुणाः, देवाद्यपेक्षया इत्यर्थः । मिथ्यादृष्टयोऽनन्तगुणाः। ____ दर्शनानुवादेन चक्षुर्दर्शनिनां काययोगिवत् , सामान्यवदित्यर्थः । अवधिदर्शनिनामवधिज्ञानवत् । केवलदर्शनिनां केवलज्ञानिवत् । ५०लेश्यानुवादेन कृष्णनीलकापोतलेश्यानामसंयतवत् । तेजःपद्मलेश्यानां सर्वतः २५ स्तोकाः अप्रमत्ताः प्रमत्ताः संख्येयगुणाः । संयताऽसंयतसासादनसम्यग्दृष्ट्यसंयतसम्यग्दटीनां पञ्चेन्द्रियवत् । शुक्ललेश्यानां सर्वतः स्तोकाः ११उपशमकाः १२११९६। क्षपकाः । १ षटर्ख० अ० १९७-२१५ । २ क्रोधमानकषायाणाम् आ० । क्रोधमानमायालोभव० । ३ येषु उप-मा०, ज० । ४ विशेषाधिकारः आ०, द०, ब०,। ५ षटर्ख० अ० २१६२४३ । ६ अयोगकेवलिनः संख्ये-आ०, द०, ब० ।-अयोगतत् कथम् ज०। ७ समुदिताः तेभ्यः आ०, द०, ब०, व०, ज० । ८ षटर्ख० अ० २४४-२८५ । ९ षटखं० अ० २८६-२८९ । १० षट्वं० भ० २९०-३२७ । ११ 'उपशमकाः' आ०, द०, १०, ज० पुस्तकेषु नास्ति । १२ २२९६ आ०, ब०, २०, ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy