SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्तो [२८ प्रवेशेन तुल्यसंख्याः। उपशान्तकषायास्तावन्त एव संख्याकथनावसरे प्रोक्ताः । उपशमकानां इतरगुणस्थानवतिभ्योऽल्पत्वात् प्रथमतः कथनम् । तत्रापि त्रय उपशमकाः सकषायत्वात् उपशान्तकषायेभ्यो भेदेन निर्दिष्टाः प्रवेशेन तुल्यसंख्याः । सर्वेऽप्येते षोडशादिसंख्याः । त्रयः क्षपकाः संख्येयगुणाः । कोऽर्थः ? उपशमकेभ्यो द्विगुणाः इत्येवमादिसंख्याविचारे ५ विचारितमिह द्रष्टव्यम् । सूक्ष्मसाम्परायसंयता विशेषाधिकाः । तत्संयमयुक्तानामुपशमकानामिव क्षपकानामपि ग्रहणात् । क्षीणकषायवीतरागच्छ अस्थास्तावन्त एव । सयोगकेवलिनोऽयोगकेवलिनश्च प्रवेशेन तुल्यसंख्याः । सयोगकेवलिनः स्वकाले समुदिताः संख्येयगुणाः ८९८५०२। अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । संयतासंयताः संख्येयगुणाः । संयताऽसंयतानां नास्त्यल्पबहुत्वमेकगुणस्थानवतित्वात् , संयतानामिव गुण१० स्थानभेदाऽसम्भवात् १३०००००० । सासादनसम्यग्दृष्टयः संख्येयगुणाः ५२०००००० । सम्यग्मिथ्यादृष्टयः संख्येयगुणाः १०४०००.००० । असंयतसम्यग्दृष्टयः संख्येयगुणाः ७०००००००००। मिथ्यादृष्टय अनन्तगुणाः । विशेषेण गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु नारकेषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । सम्यन्मिध्यादृष्टयः संख्येयगुणाः । असंयतसम्यग्दृष्टयः असंख्येयगुणाः । १५ मिथ्यादृष्टयोऽसंख्येयगुणाः। तिय्यंग्गतौ तिरश्चां सर्वतः स्तोकाः संयताऽसंयताः । इतरेषां सामान्यवत् । मनुष्यगती मनुष्याणामुपशमकादिप्रमत्ताऽप्रमत्तसंयतान्तानां सामान्यवत् । ततः संख्येयगुणाः संयताऽसंयताः । सासादनसम्यग्दृष्टयः संख्येयगुणाः। सम्यग्मिध्यादृष्टयः संख्येयगुणाः। असंयतसम्यग्दृष्टयः संख्येयगुणाः। मिथ्यादृष्टयः [अ] संख्येय. गुणाः । देवगतौ देवानां नारकवत् । २०, ५इन्द्रियानुवादेन एकेन्द्रियविकलेन्द्रियेषु गुणस्थानभेदो नास्तीति अल्पबहुत्वाऽभावः ।। इन्द्रियं प्रत्युच्यते पञ्चेन्द्रियेभ्यः चतुरिन्द्रियाः बहवः । चतुरिन्द्रियेभ्यस्त्रीन्द्रिया बहवः । त्रीन्द्रियेभ्यो द्वीन्द्रिया बहवः। तेभ्य एकेन्द्रिया बहवः । पञ्चेन्द्रियाणां सामान्यवत् । अयं तु विशेषः । मिथ्यादृष्टयोऽसंख्येयगुणाः । कायानुवादेन स्थावरकायेषु गुणस्थानभेदाभावात् अल्पबहुत्वाभावः । कायं प्रत्युच्यते २५ सर्वेभ्यः तेजःकायिका अल्पे । तेभ्यः पृथिवीकायिका बहवः । तेभ्योऽप्कायिका बहवः । तेभ्यो वायुकायिका बहवः । सर्वेभ्यो वनस्पतयोऽनन्तगुणाः । त्रसकायिकानां पन्चेन्द्रियवत् । 'योगानुवादेन वाङ्मनसयोगिनां पञ्चेन्द्रियवत्। काययोगिनां सामान्यवत् । 'वेदानुवादेन स्त्रीपुंवेदानां पञ्चेन्द्रियवत् । नपुंसकवेदानामवेदानाश्च च सामान्यवत् । १-छद्मस्थावस्थावन्तः ता-आ०, द०, ब०, ज० । २ संयतासंयतानामिव आ०, २०, द०, ज० । ३ षट्खं० अ० २७-१०२ । ४ संख्येय-आ०, ब०, द०, ज० । ५ "मिच्छादिही असंखेज गुणा, मिच्छादिट्टीसु संखेजगुणा ।"-पटखं० अ० ६५ । सर्वार्थ पृ० ३७ । ६ पर्ख. अ० १०३ । ७ षटर्ख० अ० १०४ । ८ अल्पा-३० । बहवः आ०, द, ब०, ज० । ९ षटखं० भ० १०५-१४३ । षर्ख० अ० १४४-१९६ । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy