SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८] प्रथमोऽध्यायः योगानुवादेन कायवाङ्मनसयोगिनां मिथ्यादृष्ट्यादिसयोगिकेवल्यन्तानामयोगिकेवलिनाञ्च सामान्यवत् । श्वेदानुवादेन स्त्रीपुंनपुंसकवेदानामवेदानाञ्च सामान्यवत् । कषायानुवादेन क्रोधमानमायालोभकषायाणामकषायाणाञ्च सामान्यवत् । "ज्ञानानुवादेन मत्यज्ञानश्रुताज्ञानविभङ्गशानिनां मतिश्रुतावधिमनःपर्ययकेवलज्ञानि- ५ नाश्च सामान्यवत् । ५संयमानुवादेन' सर्वेषां संयतानां संयतासंयतानाञ्च सामान्यवत् । 'दर्शनानुवादेन चक्षुर्दर्शनाऽचक्षुर्दर्शनावधिदर्शनकेवलदर्शनिनाश्च सामान्यवत् । 'लेश्यानुवादेन षट्लेश्यानामलेश्यानाञ्च सामान्यवत् । १•भव्यानुवादेन भव्यानां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् । अभव्यानां १० पारिणामिको भावः। ११सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टः क्षायिको भावः क्षायिकसम्यक्त्वम् । असंयतत्वं पुनरौदयिकेन भावेन । संयताऽसंयतप्रमत्ताप्रमत्तसंयतानां क्षायोपशमिको भावः, क्षायिकं सम्यक्त्वम् । चतुर्णामुपशमकानामौदयिको भावः, क्षायिक सम्यक्त्वम् । शेषाणां सामान्यवत् । क्षयोपशमसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेः क्षायोपशमिको १५ भावः, क्षायोपशमिकं सम्यक्त्वम् । असंयतः पुनरौदयिकेन भावेन । संयताऽसंयतप्रमत्ता:प्रमत्तसंयतानां झायोपशमिको भावः, क्षायोपशमिकं सम्यक्त्वम् । औपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेरौपशमिको भावः, औपमिकं सम्यक्वम् । असंयतः पुनरौदयिकेन भावेन । संयताऽसंयतप्रमत्ताऽप्रमत्तसंयतानामौपशमिको भावः, औपशमिकं सम्यक्त्वम् । चतुर्णामुपशमकानाम् औपशमिको भावः, औपशमिकं सम्यक्त्वम् । सासादनसम्यग्दृष्टेः २० पारिणमिको भावः। सम्यग्मिध्यादृष्टः १२क्षायोपशमिको भावः । मिथ्यादृष्टेरौदयिको भावः। १३संड्यनुवादेन संज्ञिनां सामान्यवत् । असंज्ञिनामौदयिको भावः। ये न संक्षिनो नाप्यसंनिस्तेषां सामान्यवत्। १४आहारानुवादेन आहारकाणामनाहारकाणां च सामान्यवत् । इति भावो विभावितः । अथ "अल्पबहुत्वं १६ परिवर्ण्यते तद् द्विप्रकारम्-सामान्यविशेषभेदात्। ५७सामान्येन २५ तावत् सर्वतः स्तोकाः त्रय उपशमकाः, अष्टसु समयेषु क्रमात् १८प्रवेशे एको वा द्वौ वा त्रयो वा इत्यादि जघन्याः । उत्कृष्टास्तु १६।२४॥३०॥३६॥४२॥४८॥५४॥५४ । स्वगुणस्थानकालेषु १ षट्वं० भा० ३२-४ । २ षटर्ख० मा० ४१, ४२ । ३ षट्ख० भा० ४३, ४४ । ४ षटर्ख० भा० ४५-४८ । ५ संयता-वा० । ६ षटर्ख० भा० ४९-५५ । ७ संयतानां च आ०, ब०, ज० । ८ षटखं० मा० ५६-५८ । ९ षट्खं० भा० ५९-६१ । १० षटखं० भा० ६२-६३ । ११ षट खं० भा० ६४-८८ । १२ क्षायिको भावः भा०, ब०, ज० । १३ षटलं. मा० ८९, ९०। १४ षट्खं० भा० ९१-९३ । १५ अल्पं ता० । १६-बहुत्वञ्च प-व०। १७ पटव० भ० २-२६ । १८ प्रवेशको आ० । प्रवेशेको ब० । प्रवेशको द० । प्रवेशो एको वा० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy