SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ तत्त्वार्थवृत्ती [१२८ नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण षण्मासाः। एकं जीवं प्रति नास्त्यन्तरम् । अन्तरं विज्ञातं समाप्तमित्यर्थः। अथ भावस्वरूपं निरूप्यते । सामान्यविशेष भेदात् स भावो द्विप्रकारः। 'सामान्येन तावत् मिथ्यादृष्टिरिति औदायिको भावः। कस्मात् ? मिथ्यात्वप्रकृत्युदयप्रादुर्भावात् । सासा५ दनसम्यग्दृष्टिरिति पारिणामिको भावः । ननु अनन्तानुबन्धिक्रोधाधुदये अस्य प्रादुर्भावादौदायिकत्वं कस्मानोच्यत इति चेत् ? अविवक्षितत्वात् । दर्शनमोहापेक्षया हि मिथ्यादृष्ट्यादिगुणस्थानचतुष्टये भावो निरूपयितुमभिप्रेतोऽतः सासादने सम्यक्त्वमिथ्यात्वतदुभयलक्षणस्य त्रिविधस्याऽपि दर्शनमोहस्य उदयक्षयक्षयोपशमाभावात् पारिणामिकत्वम् । सम्यम्मिथ्यादृष्टिरिति क्षायोपशमिको भावः । तथा चोक्तम्१० "मिच्छे खलु ओदइओ विदिए खलु परिणामिओ भावो । मिस्से खओवसमिओ अविरदसम्मम्मि तिण्णेव' ॥" [गो० जी० गा० ११ ] ननु सर्वघातिनामुदयाभावे देशघातिनाश्चोदये य उत्पद्यते भावः स क्षायोपशमिकः । न च सम्यग्मिथ्यात्वप्रकृतेर्देशघातित्वं सम्भवति, सर्वघातित्वेन आगमे तस्याः प्रतिपादित त्वात् । सत्यम् ; उपचारतस्तस्या देशघातित्वस्यापि सम्भवात् । उपचारनिमित्तञ्च देशतः १५ सम्यक्त्वव्याघातित्वम् । न हि मिथ्यात्यप्रकृतिवत् सम्यग्मिथ्यात्वप्रकृत्या सर्वस्य सम्यक्त्वस्वरूपस्य घातः सम्भवति, सर्वझोपदिष्टतत्त्वेषु रुच्यन्तरस्याऽपि सम्भवात् । तदुपदिष्टतत्त्वेषु रुच्यरुच्यात्मको हि परिणामः सम्यग्मिथात्वमित्यर्थः । असंयतसम्यग्दृष्टिरिति औपशमिको वा क्षायिको वा क्षायोपशमिको वा भावः। असंयतः पुनरौदयिकेन भावेन । संयता ऽसंयतः प्रमत्तसंयतोऽप्रमत्तसंयत इति च झायोपशमिको भावः । चतुर्णामुपशमकानामिति २० औपशमिको भावः। चतुर्पु क्षपकेषु सयोग्ययोगिकेवलिनोश्च क्षायिको भावः। विशेषेण "गत्यनुवादेन नरकगतौ 'प्रथमायां पृथिव्यां नारकाणां मिध्यादृष्ट थाद्यसंयतसम्यग्दृष्ट्यन्तानां सामान्यवत् । द्वितीयादिष्वासप्तम्याः मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टीनां सामान्यवत् । असंयतसम्यग्दृष्टेरौपशमिको वा क्षायोपशमिको वा भावः । असंयतः पुनरौदयिकेन भावेन । तिर्यगतौ तिरश्चां मिथ्यादृष्ट्यादिसंयतासंय२५ तान्तानां सामान्यवत् । मनुष्यगतौ मनुष्याणां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यमेव । देवगतौ देवानां मिथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तानां सामान्यवत् । ‘इन्द्रियानुवादेन एकेन्द्रियविकलेन्द्रियाणामौदयिको भावः । पञ्चेन्द्रियेषु मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् । 'कायानुवादेन स्थावरकायिकानामौदयिको भावः । त्रसकायिकानां सामान्यमेव । १-पभावात् आ० । २ षटूखं० भा० २-९ । ३ मिथ्यात्वे खल्यौदयिकः द्वितीये पुनः पारिणामिको भावः । मिश्रे क्षायोपशमिकः अविरतसम्यक्त्वे त्रीण्येव ।। ४ अस्याः भा०, ब०, ६०, ज०। ५ षटखं० मा० १०-२९ । ६ प्रथमा पृथिव्याम् मा०, २०, २०, ज०। ७ मिथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तानाम् आ०, २०, ब०, ज०। ८ षटूखं० मा० ३०। ९ षटॉ० भा० ३१ । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy