________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८]
- प्रथमोऽध्यायः सम्यक्त्वान्तरं मिथ्यात्वं वा गत्वा पश्चात् 'तदादाय करोतीत्यतो नास्ति तस्यान्तरम् । सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्ट्यो नाजीवापेक्षया जघन्येनैकसमयः । उत्कर्षेण पल्योपमासंख्येयभागः। एकं जीवं प्रति नास्त्यन्तरम् । सासादनसम्यग्दृष्टिसम्यम्मिथ्याष्टित्वयुक्कैकजीवं प्रति नास्त्यन्तरम् । तत् कथमिति चेद् ? गुणे गुणान्तरविरोधतः सासादनादिगुणे स्थितस्य मिथ्यात्वादिना अन्तराऽसम्भवात् । मिथ्यादृष्टेन नाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । ५
__ संज्यनुवादेन संज्ञिषु मिथ्यादृष्टः सामान्यवत् । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टयो नाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येन पल्योपमासंख्येयभागः अन्तमुहूर्तश्च । उत्कर्षेण सागरोपमशतपृथक्त्वम् । असंयतसम्यग्दृष्टिसंयताऽसंयतप्रमत्तसंयताऽप्रमत्तसंयतानां नानाजीवापेक्षया अन्तरं नास्ति । एकं जीचं प्रति जघन्यतयाऽन्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकं १० जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् । चतुर्णा क्षपकाणां सामान्यवत् । असंज्ञिनां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । तत्कथम् ? एकगुणस्थानवर्तित्वेन तेषां सासादनादिना अन्तराऽसम्भवात् । ये न संज्ञिनो नाप्यसंज्ञिनस्तेषां सामान्यवत् ।
_ "आहारानुवादेन आहारकेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टिसम्य- १५ मिथ्यादृष्टयो नाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण घनाङ्गुलासंख्येयभागः | घनामुलासंख्येयभाग इति कोऽर्थः ? असंख्येयाः संख्येया उत्सर्पिण्यवसपिण्यः । असंयतसम्यग्दृष्टिसंयतासंयतप्रमाप्रमत्तसंयतानां नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण अङगुल्यसंख्येयभागः, असंख्येयाः संख्येया उत्सपिण्यवसपिण्यः । चतुर्णामुपशमकानां नाना- २० जीवापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण अङगुलासंख्येयभागोऽसंख्येयाः संख्येया उत्सपिण्यवसप्पिण्यः। चतुर्णा क्षपकाणां सयोगकेवलिनाञ्च सामान्यवत् । अनाहारकेषु मिथ्यादृष्टे नाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । कथमेतत् ? अनाहारकेषु मिथ्यादृष्टयेकजीवं प्रति नास्त्यन्तरम् , अनाहारकत्वस्य एकद्वित्रिसमयत्वात् गुणस्थानस्य च ततो बहुकालत्वात् , तत्र तस्य गुणान्तरेण अन्तरासम्भवादिति। २५ सासादनसम्यग्दृष्टे नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एक जीवं प्रति नास्त्यन्तरम् । असंयतसम्यग्दृष्ट नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण मासपृथक्त्वम् । एक जीवं प्रति नास्त्यन्तरम् । सयोगकेवलिनो नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एक जीवं प्रति नास्त्यन्तरम् । अयोगिनां
१ तद्यत्क-भा०, ब०, ६० । २-रम् कथ-आ०, ६०, ब०, ज० । ३ षटखं० अ० ३७९३८३ । ४ सासादनादीनां प०, ज०। ५ षट्खं० अ० ३८४-३९७ । ६ प्रमत्तसंयतानां आ०, ६०, ब०, ज० । प्रमत्तसंप्रमत्त व०। ७ असंख्येया उत्सपि-मा०, द०, ब०, ज०। ८-ण वर्षपृथक्त्वम् आ०, ६०, ब०, ज.।
For Private And Personal Use Only