________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[१२८
प्ररावर्त्तापेक्षया । तथैव चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि । शेषाणां सामान्यवत् । २क्षायोपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टे नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना । संयताऽसंयतस्य नानाजीवा५ पेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमाणि
५देशोनानि । प्रमत्ताऽप्रमत्तसंयतयो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि 'सातिरेकाणि । औपशमिकसम्यग्दृष्टिष्वसंयतसम्यग्दृष्टे नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण सप्तरात्रिन्दिनानि । एक
जीवं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः। संयतासंयतस्य नानाजीवापेक्षया जघन्येनेकः समयः । १० उत्कर्षेण चतुर्दश रात्रिन्दिनानि । एक जीवं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः । प्रमत्ताऽप्रमत्त
संयंतयो नाजीवापेक्षया जघन्येनैकसमयः । उत्कर्षेण पश्चदश रात्रिन्दिनानि । एक जीवं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्त्तः। एतत्कथम् ? औपशमिकाऽसंयतस्य सम्यग्दृष्टीनां सान्तरत्वात् । नानाजीवापेक्षया सप्त रात्रिन्दिनानि । औपशमिकसम्यक्त्वं हि यदि कश्चिदपि न गृह्णाति तदा सप्त रात्रिन्दिनान्येव । संयतासंयतस्य चतुर्दश रात्रिन्दिनानि । प्रमत्ताऽप्रमत्तयोः
"सम्मत्ते सत्तदिणा विरदाविरदेसु चउदसा होति । विरदेसु दोसु पणरस विरहणकालो य बोद्धव्वो ॥१॥" [पञ्चसं० १-२०५]
त्रयाणामुपशमकानां नानाजीवापेक्षया जघन्येनैकः समयः। उत्कर्षेण वर्षपृथक्त्वम्। एक जीवं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः। उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । २० एक जीवं प्रति नास्त्यन्तरम् । तत्कथम् ? उपशान्तकषायकजीवं प्रति नास्त्यन्तरम् । वेदक- - पूर्वकौपशमिकेन हि श्रेण्यारोहणभाग भवति, तस्याः पतितो न तेनैव श्रेण्यारोहणं करोति,
१ "एवमवस्सेहि सत्तावीसअंतोमुहुचेहि ऊणदोपुव्वकोडीहि सादिरेयाणि तेत्तीस सागरोवमाणि अंतरं । एवं चेव तिण्हमुवसामगाणं । णवरि पंचवीस तेवीस एक्कवीस मुहुत्ता ऊणा कादव्वा ।” -ध० टी० भ० पृ० १६१ । २ “वेदकसम्मादिट्ठीसु असंजदसम्मादिट्ठीणं सम्मादिटिभंगो।"-पर्ट्स० भ० ३४९ । पृ० १६२ । ३ “एवं चदुहि अंतोमुहुत्तेहि अणिया पुवकोडी उक्करसंतरं ।" -५० टी० १० पृ० १५५। ४-माणि सातिरेकाणि भा०, २०, ५०, १०, ज० । ५ “उक्कस्सेण छावटिसागरोवमाणि देसूणाणि ।"-पट्खं० अ० ३५२ । पृ० १६२ । “एदेहि तीहि अंतोमुहुत्तेहि ऊणाणि छावहिसागरोवमाणि संजदासंजदुक्करसंतरं ।" -ध० टी० अ० पृ० १६३ । ६ “अवसेसा सत्त अंतोमुहुत्ता । एदेहि ऊणपुवकोडीए सादिरेयाणि तेतीसं सागरोवमाणि पमत्तसंजदुक्कस्संतरं । "" अवसेसा अह । एदेहि ऊणपुव्वकोडीए सादिरेयाणि तेत्तीस सागरावमाणि अप्पमत्तक्कस्संतरं ।" ध० टो०० पृ० १६४-१६५ । ७ “किमत्थो सत्तरादिदियविरहणियमो ? सभावदो।" --ध. टी० अ० पृ० १६५। ८ तत्कथम् आ० । ९-न्येन चोत्कर्षेण आ० । १० सम्यक्त्वे सप्तदिनानि विरताविरतेषु चतुर्दश भवन्ति । विरतयोर्द्वयोः पञ्चदश विरहकालश्च बोद्धव्यः ।
For Private And Personal Use Only