________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८ तत्त्वार्थवृत्ती
[११८ - दर्शनानुवादेन चक्षुर्दशनिषु मिथ्यादृष्टः सामान्यवत् । सासादनसम्यग्दृष्टिसम्यम्मिथ्यादृष्ट्यो नाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येन पल्योपमासंख्येयभागः अन्तर्मुहूर्तश्च । उत्कर्षेण द्वे सागरोपमसहस्र देशोने । असंयतसम्यग्दृष्टिसंयताऽसंयतप्रमत्तसंयताऽप्रमत्तसंयतानां नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। ५ उत्कर्षेण द्वे सागरोपमसहस्र देशोने । चतुर्णामुशमकानां नानाजीवापेक्षया सामान्योक्तम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्र देशोने । चतुर्णां क्षपकाणां क्षीणकषायान्तानां सामान्योक्तम् । अचक्षुर्दर्शनिषु मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तमन्तरम् । अवधिदर्शनिनोऽवधिज्ञानिवत् । केवलदर्शनिनः केवलज्ञानिवत्।
पलेश्यानुवादेन कृष्णनीलकापोतलेश्येषु मिध्यादृष्ट्यसंयतसम्यग्दृष्ट्यो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण 'त्रयस्त्रिंशत्सप्तदशसप्तसागरोपमानि देशोनानि । सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्ट्यो नाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षण
त्रयस्त्रिंशत्-सप्तदश-सप्तसागरोपमाणि 'देशोनानि । तेजःपद्मलेश्ययोमिथ्यादृष्ट्यसंयतसम्य१५ हष्ट्यो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहर्तः । उत्कर्षेण द्वे सागरोपमे अष्टादश च सागरोपमानि' । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्यो नाजी
१ षट्खं० अ० २८२-२९५ । २ “एवं णवहि अंतोमुहुत्तेहि आवलियाए असंखेजदिभागेण य ऊणिया चक्खुदंसणहिदी सासणुक्करसंतरं ।' ' एवं बारसअंतोमुहुत्तेहि ऊणिया चक्खुदंसणहिदी उक्कस्सन्तरं ।" -३० टो० अ० पृ० १३७ । ३ “दसहि अंतोमुहुत्तेहि ऊणिया सगढिदी असंजदसम्मादिट्ठीणमुक्कस्संतरं । ..." एवमडदालीसदिवसेहि बारसअंतोमुहुरोहिय ऊणा सगढ़िदी संजदासंजदुक्कस्संतरं । ....एवमट्टवस्सेहि दसअंतोमुहुत्तेहि ऊणिया सगढ़िदी पमत्तस्सु
कस्संतरं | ... 'एवमढुवस्सेहि दस अंतोमुहत्तेहि ऊणिया चक्खुदंसणिट्ठिदी अप्पमत्तुक्कस्संतरं होदि ।” –ध० टी० अ० पृ० १४०-१४१ । ४ “एवमट्ठवस्सेहि एगूणत्तीस अंतोमुहुत्तेहिय अणिया सगढ़िदी अपुव्वकरणुक्कस्संतरं । एवं तिहमुवसामगाणं । णवरि सत्तावीसपंचवीसतेवीसअंतोमुहुत्ता ऊणा कायव्वा ।” –ध० टी० अ० पृ० १४२ । ५ षटलं-अं० २९६-३२७ । ६ एकत्रिंशत् द० । त्रयस्त्रिंशत्सागरोपमानि आ०, ब०। ७ “एवं छ-चदुचदुअंतोमुहुनेहि ऊणाणि तेत्तीस-सत्तारस-सत्तसागरोवमाणि किण्हणील-काउलेस्सियमिच्छादिट्ठिउक्कस्संतरं होदि । एवमसंजदसम्मादिहिस्स वि वत्तव्यं । णवरि अट्ट-पंच-पंच अंतोमुहुत्तेहि ऊणाणि तेत्तीस-सत्तारस सत्तसागरोवमाणि उक्कस्संतरं ।' -५० टी० अ० पृ० १४४ । ८ “एवं पंच-च-चदु अंतोमुहुत्तेहि ऊणाणि तेत्तीस-सत्तारस-सत्तसागरोवमाणि किण्हणीलकाउलेस्सियसासणुक्कस्संतरं होदि । एवं सम्मामिच्छादिहिस्सवि। णवरि छहि अंतोमुहुरोहि ऊणाणि तेत्तीस-सत्तारस-सत्त सागरोवमाणि किण्ह-णील-काउलेस्सियसम्मामिच्छादिहि उक्कस्संतरं ।" -५० टी० अ० पृ० १४६ । ९-दश सागरो-आ०, द, व०, ब०, ज० । १०-रोपमाः आ०, द०, २०, ज० ।
For Private And Personal Use Only