________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८]
प्रथमोऽध्यायः काणि । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमानि 'सातिरेकाणि । चतुर्णां क्षपकाणां सामान्यवत् । किन्तु अवधिज्ञानिनो नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एक जीवं प्रति नास्त्यन्तरम् ।
मनःपर्ययज्ञानिषु प्रमत्ताऽप्रमत्तसंयतयो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं ५ प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः । अधिकमपि कस्मान्नेति चेत् ? अधोगुणस्थानेषु वर्तमानानां मनःपर्ययासंभवात् , तेषु वर्तमानानाञ्च अधिकमन्तरं सम्भवतीति । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत्। एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण पूर्वकोटी देशोना। तत्कथम् ? उपशमश्रेणीतो हि पतितास्ते मनःपर्य्ययज्ञानमपरित्यजन्तः प्रमत्ताप्रमत्तगुणस्थाने वर्तन्ते यावत्पूर्वकोटिकालशेषः, पुनस्तदारोहणं कुर्वन्तीति देशोना। चतुर्णा १० क्षपकाणामवधिज्ञानिवत् नानाजीवापेक्षया जघन्ये कसमयः। उत्कर्षेण वर्षपृथक्त्वम् । एक जीवं प्रति नास्त्यन्तरमित्यर्थः । सयोगायोगकेवलिज्ञानिनोः सामान्यवत् ।
____ संयमानुवादेन सामायिकच्छेदोपस्थापनशुद्धिसंयतेषु प्रमत्ताऽप्रमत्तसंयतयोर्नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्यमुत्कृष्टश्च अन्तर्मुहूर्तः। द्वयोरुपशमकयो - नाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी १५ "देशोना। तत्कथम् ? अष्टवर्षानन्तरं तपो गृहीत्वा उपशमश्रेणिमारुह्य पतितः प्रमत्ताऽप्रमत्तयोः पूर्वकोटिकालशेषं यावत् वर्तित्वा पुनस्तदारोहणं करोतीति देशोना । द्वयोः क्षपकयोः सामान्यवत् । परिहारशुद्धिसंयतेषु प्रमत्ताऽप्रमत्तयो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्यमुत्कृष्टश्चान्तर्मुहूर्तः। सूक्ष्मसाम्परायशुद्धिसंयमे उपशमकस्य नानाजीवापेक्षया सामान्यवत् । एक जीवं प्रति नास्त्यन्तरम् । कस्मात् ? गुणान्तरे सूक्ष्मसाम्पराय- २० संयमाभावात् । सूक्ष्मसाम्परायक्षपकस्य सामान्यवत् । "यथाख्याते अकषायवत् । संयताऽसंयतस्य नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । असंयतेषु मिथ्यादृष्टे नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण त्रयस्त्रिंशत्सागरो पमानि देशोनानि । सासादनसम्यग्दृष्टिसम्यग्मिध्यादृष्ट्यसंयतसम्यग्दृष्टीनां सामान्यवत् ।
१ “अहि वस्सेहि छब्वीसंतोमुहुनेहि य ऊणा तीहि पुव्वकोडीहि सादिरेयाणि छावटिसागरोवमाणि उक्कस्संतरं होदि ।.'णवरि चदुवीसबावीसबीसं अंतोमुहुत्ता ऊणा कादब्वा ।" -ध० टी० भ० पृ० १२३, १२४ । २ “अहवस्सेहि वारसअंतोमुहुत्तेहि य ऊणिया पुन्चकोडी उक्कस्संतरं । एवं तिण्हमुवसामगाणं । णवरि जहकमेण दसणवअटुअंतोमुहुत्ता समओ य पुत्वकोडीदो ऊणा त्ति वत्तव्वं ।” -ध० टी० अ० पृ० १२६ । ३ सयोग्ययोगिके-आ०, द०, ब०, ज०। ४ षट्वं० अ० २५८-२८१ । ५ “अहि वस्सेहि एक्कारसअंतोमुहुरोहिय ऊणिया पुब्वकोडी अंतरं । एवमणियट्टिस्स वि णवरि समयाहिय णव अंतोमुहुत्ता ऊणा कादव्वा ।” -ध० टी० अ० पृ० १३० । ६ परिहारसंयतेषु आ०, द०, ब०, ज०। ७ तथाख्याते ता० । ८ 'छहि अंतोमुहुत्तेहि ऊणाणि तेत्तीसं सागरोवमाणि मिच्छत्तुक्कस्संतरं।" -ध० टी० अ० पृ० १३४ ।
For Private And Personal Use Only