________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[११८ जीवं प्रप्ति नास्त्यन्तरमित्यर्थः । वेदरहितेषु अनिवृत्तिबादरोपशमकसूक्ष्मसाम्परायोपशमकयोर्नानाजीवापेक्षया सामान्योक्तम् । एकं जीवं प्रति जघन्यमुत्कृष्टश्च अन्तर्मुहूर्तः। उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एक जीवं प्रति नास्त्यन्तरम् । तस्याधो गुणस्थाने सवेदत्वात् । क्षीणकषायादोनामवेदानां सामान्यवत् ।
कषायानुवादेन क्रोधमानमायालोभकषायाणां मिथ्यादृष्ट्याद्यनिवृत्त्युपशमकानां मनोयोगिवत् । द्वयोः क्षपकयो नाजीवापेक्षया जघन्येनेकः समयः । उत्कर्षेण संवत्सरः सातिरेकः । केवललोभस्य सूक्ष्मसाम्परायोपशमकस्य नानाजीवापेक्षया सामान्यवत् । एक जीवं प्रति नास्त्यन्तरम् । केवललोभस्य सूक्ष्मसाम्परायक्षपकस्य सामान्यवत्। एक जीवं
प्रति नास्त्यन्तरम् । अकषायेषूपशान्तकषायस्य नानाजीवापेक्षया सामान्यत्रत् । एक जीवं १० प्रति नास्त्यन्तरम् । क्षीणकषायसयोगाऽयोगकेवलिनां सामान्यवत् ।
२ज्ञानानुवादेन मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानिषु मिथ्यादृष्टेर्नानाजीवापेक्षया एकजोवापेक्षया च नास्त्यन्तरम् । सासादनसम्यग्दंष्टे नाजीवापेक्षया सामान्यवत् , जघन्येनकसमयः। उत्कर्षेण पल्योपमासंख्येयभाग इत्यर्थः । एक जीवं प्रति नास्त्यन्तरम् । यतो
ज्ञानत्रययुक्तकजीवेऽपि मिथ्यात्वस्यान्तरं नास्ति, गुणान्तरे ज्ञानत्रयव्यभिचारात् । सासादने १५ अस्तीति चेत् ; न ; तस्य सम्यक्त्वग्रहणपूर्वत्वात् , सम्यग्दृष्टेश्च मिथ्याज्ञानविरोधात् ।
आभिनिबोधिकश्रुतावधिज्ञानिषु असंयतसम्यग्दृष्ट नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण पूर्वकोटी "देशोना । तत्कथम् ? देशविरतादिगुणस्थाने अन्तरम् , अवसानकालशेषे पुनरसंयतत्वं प्रतिपद्यत इति देशोना । सयताऽसंयतस्य नाना
जीवापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोप२० मानि सातिरेकाणि । षट्षष्टिसागरोपमानन्तरं पुनः संयतासंयतो भवति यतः । तत्कथम् ?
असंयतप्रमत्तादिगुणस्थानेन अन्तरं पूर्वकोटिचतुष्टयाष्टयः सातिरेकाणि, मनुष्येषु उत्पन्नो हि अष्टवर्षानन्तरं संयतासंयतत्वं प्रतिपद्यत इति । प्रमत्ताऽप्रमत्तयो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कण त्रयस्त्रिंशत्सागरोपमानि 'सातिरे
१ षट्वं० अ० २२३-२२८ । २ षट्खं० अ० २२९-२५७ । ३-भागः एक आ०, ६०, व०, ज०। ४ चेत् तस्य आ० । ५ "लद्धं चदुहि अंतोमुहुनेहि ऊणिया पुन्चकोडी अंतरं । ओहिणाणिअसंजदसम्मादिहिस्स पंचहि अंतोमुहुनेहि ऊणिया पुचकोडी लद्धमन्तरं ।” -ध० टो० अ० पृ० ११५, ११६ । ६ शेषेसु पु -आ०, द०, ५०। ७ “एवमट्ठवस्सेहि एक्कारस अंतोमुहुत्तेहि य ऊणियाहि तीहि पुन्चकोडीहि सादिरेयाणि छावट्ठिसागरोवमाणि उक्कस्संतरं । ..... णवरि आमिणिबोहियणाणस्स आदीदो अंतोमुहुत्तेण आदिकादूण अंतराविय वारसअंतोमुहुत्तेहि समहिय अवस्सूण तीहि पुन्वकोडीहि सादिरेयाणि छावहिसागरोवमाणि त्ति वत्तव्यं ।" -५० टी० अ• पृ० ११७ । ८ “तेत्तीसं सागरोवमाणि एगेणंतोमुहुनेण अब्भहिय पुवकोडीए सादिरेयाणि उक्कस्संतरं । ...अवसिद्धेहि अद्धछटुंतोमुहुत्तेहि ऊणपुव्वकोडीए सादिरेयाणि तेत्तीसं सागरोवमाणि उक्कस्संतरं होदि ।" -ध० टी० अ० पृ० १२१, १२२ ।
For Private And Personal Use Only