SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८] प्रथमोऽध्यायः न्तरेणान्तरं पुनस्तत्प्राप्तिश्च न सम्भवतीति कारणात् । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योनानाजीवापेक्षया सामान्यवत् । १एकं जीवं प्रति नास्त्यन्तरम् । सासादनसम्यग्दृष्ट्यादीनामप्येकजीवापेक्षया अत एव पुनस्तत्प्राप्त्यसंभवकारणात् नास्त्यन्तरम् । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एक जीवं प्रति नास्त्यन्तरम् । चतुर्णा क्षपकाणामयोगकेवलिनाञ्च सामान्यवत्। वेदानुवादेन स्त्रीवेदेषु मिथ्यादृष्टे नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि देशोनानि । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्यो नाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येन" पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण पल्योपमशतपृथक्त्वम् । असंयतसम्यग्दृष्ट्याचप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पल्योपमशत- १० पृथक्त्वम् । द्वयोरुपशमकयो नाजीवापेक्षया सामान्यवत् । ननु उपशमकाश्चत्वारो वर्तन्ते द्वयोरिति कस्मात् ? सत्यम् ; अपूर्वकरणाऽनिवृत्तिकरणाभ्यामुपरि वेदाऽसम्भवात् । एवं द्वयोः क्षपकयोरपि चर्चनीयम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण पल्योपमशतपृथक्त्वम् । द्वयोः क्षपकयो नाजीवापेक्षया जघन्यनकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकं जीवं प्रति नास्त्यन्तरम् । पुंवेदेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टिसम्य- १५ ग्मिथ्यादृष्टयो नाजीवापेक्षया सामान्यवत्। एक जीवं प्रति जघन्येन पल्योपमासङ्ख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण सागरोपमशतपृथक्त्वम् । असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण सागरोपमशतपृथक्त्वम् । द्वयोरुपशमकयो नाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येनान्तर्मुहूर्त्तः। उत्कर्षेण सागरोपमशतपृथक्त्वम् । द्वयोः क्षपकयो नाजीवापेक्षया जघन्ये- २० नैकः समयः । उत्कर्षेण संवत्सरः सातिरेकः, अष्टादश मासा इत्यर्थः। एक जीवं प्रति नास्त्यन्तरम् । नपुंसकवेदेषु मिथ्यादृष्टे नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण त्रयस्त्रिंशत्सागरोपमानि देशोनानि । सासादनसम्यग्दृट्याद्यनिवृत्त्युपशमकान्तानां सामान्योक्तम् । अनिवृत्ति च तदुपशमकश्च तद्गुणस्थानमन्ते येषामिति ग्राह्यम् । नवमगुणस्थानस्य नवभागीकृतस्य तृतीये भागे नपुंसकवेदो निवर्त्तते, २५ चतुर्थे भागे स्त्रीवेदो निवर्त्तते, षष्ठे भागे पुंवेदो 'निवर्तते यतः। द्वयोः क्षपकयोः स्त्रीवेदवत् । तत्कथम् ? नानाजीवापेक्षया जघन्येनैकः समयः । "उत्कर्षेण अष्टादश मासाः। एक - १ एक प्रति आ० । २-मयोगिके -ता०, २०, ब०, द०, ज० । ३ षट्र्ख० अ० १७८-२२२ । ४ “पंचहि अंतोमुहुत्तेहि ऊणाणि पणवण्णपलिदोवमाणि उक्कस्संतरं होदि ।"ध० टी० अ० पृ० ९५। ५ पल्योपमानि सं-ज०। ६-रुपशमयोः आ०, द०, ब०, ज० । ७ एक प्रति आ० । ८ "एवं छहि अंतोमुहुचेहि ऊणाणि तेत्तीसं सागरोवमाणि उक्कस्संतरं होदि ।" ५० टो० अ० पृ० १०७। ९ विद्यते ता०, २० । वर्तते आ०, ब०, द० । १० "उक्कस्सेण वासपुधत्तं” -पटॉ० अ० २१२ । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy