SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ तत्त्वार्थवृत्ती [११८ प्रति अन्तरमुक्तम् । गुणं प्रति उभयतोऽपि नास्त्यन्तरम्। उभयत इति कोऽर्थः ? एकेन्द्रियविकलेन्द्रियतोऽपि, यतस्ते एकेन्द्रियविकलेन्द्रिया मिथ्यादृष्टय एव । एकेन्द्रियविकलेन्द्रियाणां चतुर्णा गुणस्थानान्तरासम्भवात् । पञ्चेन्द्रियाणां तु तत्सम्भवात् मिथ्यात्वादेः सम्यक्त्वादिना अन्तरं द्रष्टव्यम् । पञ्चेन्द्रियेषु मिथ्यादृष्टेः सामान्यवत्। सासादनसम्यग्दृष्टिसम्य५ मिथ्यादृष्ट्यो नाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येन पल्योपमासंख्येय भागोऽन्तर्मुहूर्तश्च । उत्कर्षेण सागरोपमसंहस्र पूर्वकोटिपृथक्त्वैरभ्यधिकम् । असंयतसम्यग्दृष्टयाद्यप्रमत्तानां चतुर्णा नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तमुहूर्तः। उत्कर्षेण सागरोपमसहस्र पूर्वकोटिपृथक्त्वैरभ्यधिकम् । चतुर्णामुपशमकानां नाना जीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येनान्तर्मुहूर्त्तः। उत्कर्षेण सागरोपमसहस्र १० पूर्वकोटिपृथक्त्वैरभ्यधिकम् । शेषाणां चतुर्णा क्षपकाणां सयोग्ययोगिकेवलिनाञ्च सामान्योक्तमन्तरम् । कायानुवादेन पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया नास्त्यन्तरम्। एक जीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेण अनन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । वनस्पतिकायिकानां नानाजीवापेक्षया नास्त्यन्तरम् , एकजीवापेक्षया जघन्येन क्षुद्रभवग्रहणम् । १५ उत्कर्षेण असंख्येया लोकाः। तत्कथम् ? पृथिव्यादिकायानां वनस्पतिकायिकरन्तरमुत्कर्षेणा संख्येयाः पुद्गलपरिवर्त्ताः । तेषां नैरन्तरमुत्कर्षेण असंख्येया लोकाः वनस्पतिकायिकेभ्यः अन्येषामल्पकालत्वात् । एवं कायं प्रत्यन्तरमुक्तम् । गुणस्थानं प्रति पृथिव्यादिचतुर्णां वनस्पतिकायिकानाश्च अन्तरं नास्ति, यतः पृथिव्यप्तेजोवायुकायिकास्तथा वनस्पतिकायिकाश्च उभ येऽपि मिथ्यादृष्टयो वर्तन्ते। सकायिकेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टि२० सम्यग्मिथ्यादृष्ट्यो नाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येन पल्योपमासंख्येय भागोऽन्तर्मुहूर्तश्च । उत्कर्षेण द्वे सागरोपमसहस्र पूर्वकोटिपृथक्त्वैरभ्यधिके । असंयतसम्यग्दृष्ट्यादीनां चतुर्णा नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्र पूर्वकोटिपृथक्त्वैरभ्यधिके । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत्। एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण द्वे सागरोपमसहस्र पूर्व२५ कोटिपृथक्त्वरभ्यधिके । चतुर्णां क्षपकाणां सयोग्ययोगिनाञ्च पञ्चेन्द्रियवत् । "योगानुवादेन कायवाङ्मनसयोगिनां मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिसंयताऽसंयतप्रमत्ताsप्रमत्तसयोगकेवलिनां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । कायवाङ्मनसयोगिनां मिथ्याष्ट्याधुक्तषड्गुणस्थानानां नानकजीवापेक्षया अन्तरं कथं नास्तीति चेत् ? कायादियोगिनोऽन्तर्मुहूर्त्तकालत्वात् , कायादियोगे स्थितस्यात्मनो मिथ्यात्वादिगुणस्य गुणा १ चतुर्गु-ता०। २-सहस्र पू -आ०, द०, ब०, ज० । ३ षटर्ख० अं० १३०-१५२ । ४-गिनां पञ्चे-आ०, द०, ५०, ज० । ५ षटखं० अ० १५३-१७७ । ६-पेक्षया कथमन्तरम् आ०, द०, २०, ज०। ७ काययोगेनान्त -ता० । काययोगिनान्त -व० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy