________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
प्रथमोऽध्यायः
४३ क्षपणारम्भकवेदकयुक्तस्य तिर्यक्षुत्पादाभावात् , तद्युक्तो हि देवेष्वेवोत्पद्यते । अतो मिथ्यात्वयुक्तनिपल्योपमायुष्को भोगभूमिषु उत्पद्यते । तत्र चोत्पन्नानां तिर्यग्मनुष्याणां किञ्चिदधिकाष्टचत्वारिंशदिनेषु सम्यक्त्वग्रहणयोग्यता भवति, नियमादेतावदिनेषु२ मिथ्यात्वपरित्यागात् सम्यक्त्वं गृह्णाति । त्रिपल्योपमायुःशेषे पुनर्मिथ्यात्वं प्रतिपद्यते इति गर्भकालेन किञ्चिदधिकाष्टचत्वारिंशदिनैः अवसानकालशेषेण च हीनत्वात् देशोनानि ज्ञातव्यानि । ५ सासादनसम्यग्दृष्ट्यादीनां चतुर्णां सामान्योक्तमन्तरम् ।
मनुष्यगतौ मनुष्याणां मिष्टयादृष्टस्तिर्यग्वत् । यतो मनुष्या अपि भौगभूमौ तथाविधा भवन्ति । सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टयो नाजीवापेक्षया सामान्यवत्। एक जीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तमुहर्तश्च । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वरभ्यधिकानि। असंयतसम्यग्दृष्टे नाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया १० जघन्येनान्तर्मुहूर्तः। उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वैरभ्यधिकानि । संयतासंयतप्रमत्ताप्रमत्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः उत्कर्षेण पूर्वकोटिपृथक्त्वानि । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवदन्तरम् । एक जीवं प्रति जघन्ये नान्तर्मुहूर्तः। उत्कर्षेण पूर्वकोटिपृथक्त्वानि । शेषाणां क्षीणकषायादीनां सामान्यवत्।
१५ देवगतौ देवानां मिथ्यादृष्टयसंयतसम्यग्दृष्टयो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तमुहूर्तः । उत्कर्षेण एकत्रिंशत्सागरोपमानि देशोनानि । तत्कथम् ? मिथ्यात्वयुक्तो अग्रौवेयकेषु उत्पद्यते, पश्चात्सम्यक्त्वमादाय एकत्रिंशत्सागरोपमानि तिष्ठति । अवसानकालशेषे पुनर्मिथ्यात्वं प्रतिपद्यते । अन्यथा गत्यनुक्रमः५ स्यादिति देशोनानि । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टयो नाजीवापेक्षया सामान्यवत् । एक जीवं प्रति जघन्येन पल्योपमसंख्ये- २० यभागः अन्तर्मुहूर्त्तश्च । उत्कर्षेण एकत्रिंशत्सागरोपमानि देशोनानि ।
इन्द्रियानुवादेन एकेन्द्रियाणां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्येन तुद्रभवग्रहणम् । उत्कर्षेण द्वे सागरोपमसहस्र पूर्वकोटिपृथक्त्वैरभ्यधिके षण्णवतिपूर्वकोटिभिरभ्यधिके इत्यर्थः। विकलेन्द्रियाणां नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येन छुद्रभवग्रहणम् , उत्कर्षेण अनन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । एकमिन्द्रियं २५
१ भवति एता-द०, ब०, ज०। २-दिनेषु सम्यक्त्वमिथ्या -आ०, द०, व०, ज० । ३ गर्भकाले कि -आ०, द०, ब०, ज०। ४ “चदुहि अंतोमुहुत्तेहि ऊणाणि एक्कतीसं सागरोवमाणि उक्कस्संतरं होदि । ... पंचहि अंतोमुहुनेहि ऊणाणि एक्कचीसं सागरोक्माणि असंजदसम्मादिहिस्स उक्कस्संतरं होदि ।” -५० टी० भ० पृ० ५८ । ५-नुगमः ज० । ६ इति शेषोनादे -भा०। ७ "तिहि समएहि ऊणाणि एक्कत्तीसं सागरोवमाणि सासणुक्कस्संतरं होदि । ....''छहि अंतोमुहुरेहि ऊणाणि एक्कत्तीसं सागरोवमाणि सम्मामिच्छत्तस्सुक्कस्संतरं होदि ।" -३० टी० अ० पृ०६०। ८ षट्स अं० १०१-१२९ ।
For Private And Personal Use Only