________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
[ १८
तत्त्वार्थवृत्तौ असंयतसम्यग्दृष्टिसंयताऽसंयतप्रमत्तसंयताप्रमत्तसंयतानां नानाजीवापेक्षया अन्तरं नास्ति । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कण अर्द्धपुद्रलपरिवों देशोनः । चतुर्णामुपशमकानां नानाजीवापेक्षया जघन्येनैकसमयः । उत्कर्षेण वर्षपृथक्त्वम् । त्रिभ्य उपरि नवभ्योऽधः पृथक्त्वसञ्ज्ञा आगमस्य । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण अर्द्धपुद्गलपरिवों ५ देशोनः । चतुर्णां क्षपकाणामयोगिकेवलिनाञ्च नानाजीवापेक्षया जघन्य कसमयः । उत्कर्षण षण्मासाः। एक जीवं प्रत्यन्तरं नास्ति । सयोगकेवलिनां नानाजीवापेक्षया" एकजीवापेक्षया चान्तरं नास्ति।
विशेषेण गत्यनुवादेन नरकगतौ नारकाणां सप्तसु नरकभूमिषु मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्यो नाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षण १० एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमानि देशोनानि । “सासादनसम्यग्दृष्टि
सम्यग्मिथ्यादृष्ट्यो नाजीवापेक्षया जघन्येनैकसमयः । उत्कर्षेण पल्योपमासङ्ख्येयभागः । एक जीवं प्रति जघन्येन पल्योपमासङ्ख्येयभागः अन्तर्मुहूर्त्तश्च । उत्कर्षेण एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमानि देशोनानि ।
तिर्यग्गतौ, तिरश्चां मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघ१५ न्येनान्तर्मुहूर्तः। उत्कर्षेण त्रीणि पल्योपमानि १०देशोनानि । अधिकमपि कस्मान्नेति चेत् ?
१-संयतानां नाना-आ०, द०, ब०, ज० । २ “एवमेक्कारसेहि अंतोमुहुचेहि ऊणमद्धपोग्गलपरियहमसंजदसम्मादिट्ठीणमुक्कसंतरं होदि ।...."एवमेक्कारसेहि अन्तोमुहुरोहि ऊणमद्धपोग्गलपरियमुक्कस्संतरं संजदासंजदस्स होदि. "एवं दसहि अंतोमुहुत्तेहि ऊणमद्धपोग्गलपरियह पमत्तस्मुक्कस्संतरं होदि । ....." एवं दसहि अंतोमुहुरोहि ऊणमद्धपोग्गलपरियट्ट अप्पमत्तस्सुक्कस्संतरं होदि।" -५० टो० भ० पृ० १५-१७ । ३-कः सम-व०। ४ "एवमट्ठावीसेहि अंतोमुहुत्तेहि ऊणमद्धपोग्गलपरिवट्टमपुव्वकरणस्सुक्कस्संतरं होदि । एवं तिण्हमुवसामगाणं । णवरि परिवाडीए छब्बीस चउवीसं वावीसं अंतोमुहुत्तेहि ऊणमद्धपोग्गलपरिय तिण्हमुक्कस्संतरं होदि ।” -५० टो० अ० पृ० २० । ५-पेक्षया नास्त्यन्तरं विशे -आ०, द०, ब०, ज०। ६ षट्वं० अ० २१-१००। ७ “उक्कस्सेण तेत्तीसं सागरोवमाणि देसूणाणि ।२३। एवं छहि अंतोमु हुत्तेहि ऊणाणि तेत्तीसं सागरोवमाणि मिच्छचुक्कस्संतरं होदि ।..."एवं छहि अंतोमुहुत्तेहि ऊणोणि तेत्तीसं सागरोवमाणि असंजदसम्मादिठि-उक्कस्संतरं होदि ।" -ध० टो० अ० पृ० २३ । ८ सासादनसम्यग्मिध्या -आ०, द०, ब०, ज० । ९ “एवं समयाहियचदुहि अंतोमुहुत्तेहि ऊणाओ सगसगुक्कस्सद्विदीओ सासणाणुक्कस्संतरं होदि ।.."छहि अंतोमुहुरोहि ऊणाओ सगसगुक्कस्सट्ठिदीओ सम्मामिच्छत्तु कस्संतरं होदि ।” –ध० टी० अ० पृ. ३०-३१ । १० “आदिल्लेहि मुहुत्तपुचत्तब्भहिय-वेमासेहि अवसाणे उवलद्ध वे अंतोमुहुनेहि य ऊणाणि तिण्णि पलिदोवमाणि मिच्छत्तुक्कस्संतरं होदि ।” -ध० टी० अ० पृ० ३२ ।
For Private And Personal Use Only