SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८] प्रथमोऽध्यायः ४१ जघन्येनान्तर्मुहूर्तः। 'वक्रेण गतः क्षुद्रभवेषु पुनरपि वक्रेण गतः । उत्कर्षेण अमुल्यसंख्येयभागः संख्येयाऽसंख्येया उत्सप्पिण्यवसर्पिण्यः । अस्यायमर्थः-उत्कर्षेण सङ्ख्याताऽसङ्ख्यातमानावच्छिन्नोत्सपिण्यवसप्पिणीलक्षणामुल्यसंख्येयभागः शश्वदृजुगतिमत्त्वात् । शेषाणां सासदनसम्यग्दृष्ट्यादीनां त्रयोदशगुणस्थानानां सामान्योक्तः कालः । अनाहारकेषु मिथ्यादृष्टेनानाजीवापेक्षया सर्वः कालः। एकजीवं प्रति जघन्येनैकसमयः। उत्कर्षेण त्रयः समयाः, ५ "एकं द्वौ त्रीन वाऽनाहारकः ।" [ त० सू० २।३०] इति वक्ष्यमाणत्वात् । सासादनसम्यग्दष्टे नाजीवापेक्षया जघन्येनेकः समयः । उत्कर्षेण आवलिकाया असंख्येयभागः। तच्चावलिकाया असंख्येयभागः समयमानलक्षणत्वात् एकसमय एव स्यात् , आवल्या असंख्यातसमयलक्षणत्वादिति । एकजीवं प्रति जघन्येनैकः समयः। उत्कर्षेण द्वौ समयौ। सयोगकेवलिनो नानाजीवापेक्षया जघन्येन त्रयः समयाः समये समये दण्डादिप्रारम्भकत्वात् । उत्क- १० र्षेण सख्येयाः समयाः जघन्योत्कृष्टसङ्ख्यातमानावच्छिन्नाः निरन्तरं विषमसमये दण्डादिप्रारम्भकत्वात् । एक जीवं प्रति जघन्यश्चोत्कृष्टश्च कालस्त्रयः समयाः प्रतरद्वयलोकपूरणलक्षणाः। अयोगकेवलिनां सामान्योक्तः कालः । २इति कालवर्णनं सम्पूर्णम् । ___ अथ अनन्तरमन्तरं निरूप्यते । विवक्षितस्य गुणस्थानस्य गुणस्थानान्तरसङ्क्रमे सति पुनरपि तद्गुणस्थानप्राप्तिः यावन्न भवति तावान् कालोऽन्तरमुच्यते । तदन्तरं सामान्यविशेष- १५ भेदात् द्विप्रकारं भवति । सामान्येन तावदन्तरमुच्यते-मिथ्यादृष्टे नाजीवापेक्षया अन्तरं नास्ति । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण द्वे षट्षष्टी "देशोने सागरोपमानाम् । तत्कथम् ? वेदकसम्यक्त्वेन युक्तः एका षट्षष्टिं तिष्ठति । वेदकसम्यक्त्वस्य उत्कर्षेण एता"वन्मात्रकालत्वात् । पुनरवान्तरे अन्तर्मुहूत्र्तं यावत् सम्यग्मिथ्यात्वं गतस्य पुनरौपशमिकसम्यक्त्वग्रहणयोग्यता पल्योपमासङ्ख्येयभागे गते सति । एतावदन्तरे तत्र वेदकसम्यक्त्वग्रहण- २० योग्यता, ग्रहणे योग्यताया एवं सम्भवात् । सासादनसम्यग्दृष्टेरन्तरं नानाजीवापेक्षया जघन्येनैकसमयः । उत्कर्षेण पल्योपमासङ्ख्येयभागः । एक जीवं प्रति जघन्येन पल्योपमासङ्ख्येयभागः। उत्कर्षेण अर्द्धपुद्गलपरिवर्तों देशोनः। सम्यम्मिथ्यादृष्टेरन्तरं नानाजीवापेक्षया सासादनवत् । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण अर्द्धपुद्रलपरिवर्तों देशोनः । १ "जहण्णेण खुद्दाभवग्गहणं तिसमयूर्ण । २११ । तिण्णि विग्गहे काऊण सुहुमेइंदिएसुप्पजिय चउत्थसमए आहारी होदूण मुंजमाणाउअं कदलीघादेण घादिय अवसाणे विग्गहं करिय णिग्गयस्स तिसमऊणखुद्दाभवग्गहणमेत्ताहारकालुवलंभादो।"-षटर्ख० खु० पृ० १८४ । २ इति कालव्यावर्णना समाप्ता आ० । इति कालव्यावर्णनं समाप्तम् प० । ३ षट्खं अ० २-२०। ४ “लद्धमंतरं अंतोमुहुत्त ण वेछावठिसागरोवमाणि ।” -ध० टी० अ० पृ० ७ । ५-मानका-आ०, ६०, ब०, ज० । ६ “एवं समयाहियचोद्दसअंतोमुहुरोहि ऊणमद्धपोग्गलपरियह सासणसम्मादिठिस्स उक्कस्संतरं होदि ।" -ध० टी० अ० पृ० १२। ७ “एदेहि चोदसअंतोमुहुनेहि ऊणमद्धपोग्गलपरियह सम्मामिच्छत्त क्कस्संतरं होदि ।" -ध० टी० अ० पृ० १३ । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy