________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[१२८ जघन्येनान्तर्मुहूर्त्तः । तत्कथम् ? एकजीवस्य मिथ्यात्वयुक्तः त्रीवेदकालः जघन्येनान्तर्मुहूर्तः, ततो गुणान्तरसङ्क्रम इत्यर्थः । उत्कर्षेण पल्योपमशतपृथक्त्वम् । तत्कथम् ? स्त्रीवेदयुक्तो मिथ्यादृष्टिदेवेष्वायुर्बध्नाति, ततस्तिर्य्यङ्मनुष्येषु नारकसम्मूर्छनवर्ज तावत् पल्योपमशतपृथक्त्वम् , ततो वेदपरित्यागः । सासादनसम्यग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्योक्तः कालः, किन्तु ५ असंयतसम्यग्दृष्टेन नाजीवापेक्षया सर्वः कालः। एक जीवं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण
पञ्चपञ्चाशत्पल्योपमानि देशोनानि । देशोनानि कथमिति चेत् ? स्त्रीवेदासंयतैकजीवं प्रति उत्कर्षेण पश्चपञ्चाशत्पल्योपमानि, गृहीतसम्यक्त्वस्य स्त्रीवेदेनोत्पादाभावात् , पर्याप्तः सन् सम्यक्त्वं गृहीष्यतीति पर्याप्तिसमापकान्तर्मुहूर्तहीनत्वात् देशोनानि तानि पञ्चपञ्चाशत्पल्योप
मानि स्त्रीवेदे षोडशे २ स्वर्गे सम्भवन्तीति वेदितव्यम् । पुंवेदेषु मिथ्यादृष्ट नाजीवापेक्षया सर्वः १० कालः । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण सागरोपमशतपृथक्त्वम् । सासादनसम्यग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्योक्तः कालः। नपुंसकवेदेषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः। सासादनसम्यग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्यवत् । किन्त्वसंयतसम्यग्दृष्ट
र्नानाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येनान्तर्मुहर्तः, उत्कर्षेण त्रयस्त्रिंशत्सा१५ गरोपमानि देशोनानि। तत्कथम् ? कश्चिजीवः सप्तमनरके पतितः, तत्र नपुंसकः सन्नुत्क
र्षेण त्रयस्त्रिंशत्सागरोपमायुरुत्पद्यते, स पर्याप्तः सन् सम्यक्त्वं गृहीष्यतीति कियत्कालं विश्रम्य विशुद्धो भूत्वा सम्यक्त्वं गृह्णाति, अन्ते त्यजति चेति देशोनानि । अपगतवेदानां सामान्यवत्।
कषायानुवादेन चतुष्कषायाणां मिथ्यादृष्ट्याद्यप्रमत्तान्तानां मनोयोगिवत् जघन्ये२० नैकसमयः, उत्कर्षेण अन्तर्मुहूर्त इत्यर्थः। स तु कालः एक जीवं प्रति काषायगुणपरा
यापेक्षया ज्ञातव्यः । द्वयोरुपशमकयोर्द्वयोः क्षपकयोः केवललोभस्य वाऽकषायाणाञ्च सामान्योक्तः कालः।
"ज्ञानानुवादेन मत्यज्ञानश्रुताज्ञानिषु मिथ्यादृष्टिसासादनसम्यग्दृष्ट्योः सामान्यवत् कालः । विभङ्गज्ञानिषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येना२५ न्तमुहूर्तः, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमानि देशोनानि । देशोनानीति कथम् ? विभङ्गज्ञानिमिथ्यादृष्ट्य कजीवं प्रति उत्कर्षेण नारकापेक्षया त्रयस्त्रिंशत्सागरोपमानि, पर्याप्तश्च विभङ्गज्ञानं प्रतिपद्यत इति पर्याप्तिसमापकान्तर्मुहूतहीनत्वात् देशोनानि । सासादनसम्यग्दृष्टे सामान्योक्तः कालः । आभिनिबोधिकश्रुतावधिमनःपर्य्ययज्ञानिनं केवलज्ञानिनाञ्च सामान्योक्तः कालः ।
१ स्त्रीवेदोत्पा-आ०, द०, ब०, ज०। २ षोडशस्व-मा०, ब०, ६०, ५०, ज० । ३ "छहि अंतोमुहुत्तेहि ऊणतेचीससागरोवलंभा।" -५० टी० का० पृ० ४४३ । ४ षट्ख० का० २५०-२५९ । ५ षट्ख० का० २६०-२६८ । ६ विभंगाशाता, आ०, ब०, ५०, ज०। ७ "एवमतोमुहुचूण तेचीससागरोवमाणि विभंगणाणस्स उक्कस्सकालो होदि ।" -ध० टी० का. पृ० ४५०।
For Private And Personal Use Only