________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
प्रथमोऽध्यायः मध्ये पञ्चेन्द्रिये क्षुद्रभवेन अष्टौ वारान् , पुनरपि द्वितीयवारं नपुंसकस्त्रीपुंवेदे' सब्ज्ञित्वासज्ञित्वाभ्यामष्टचत्वारिंशत् पूर्वकोटयो भवन्ति । एवं षण्णवति कोटयः । पञ्चेन्द्रियसासादनादीनां सामान्योक्तः कालो वेदितव्यः ।
कायानुवादेन पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येन क्षुद्रभवग्रहणम् ! उत्कर्षेण असङ्ख्येया लोकाः । वनस्पतिकायिकानाम् एके- ५ न्द्रियवत् ।। ६६१३२ ॥ त्रसकायिकेषु मिथ्यादृष्ट नाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण द्वे सागरोपमसहस्र पूर्वकोटिपृथक्त्वैरभ्यधिके । सासादनादीनां पञ्चेन्द्रियवत् कालो वेदितव्यः।
योगानुवादेन वाङ्मनसयोगिषु मिथ्यादृष्टयसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रमत्तसयोगकेवलिनां नानाजीवापेक्षया सर्वः कालः । एकजीवापेक्षया जघन्येनैकः समयः। तत्कथम् ? १० वाङ्मनसयोगिषु मिथ्यादृष्ट्यादीनां षण्णां योगपरावर्त्तगुणस्थानपरावर्तीपेक्षया जघन्येनैकसमयः । तथा हि-अविवक्षितत्वादिगुणस्थानकालान्त्यसमये वाङ्मनसान्यतरयोगसङ्क्रमणं योगपरावतः । गुणान्तरयुक्तवाङ्मनसान्यतरयोगकालान्त्यसमये मिथ्यात्वादिगुणसक्रमो गुणपरावतः । तदपेक्षया वा एकः समयः । उत्कर्षेण अन्तर्मुहूर्तः। तत्कथम् ? योगकालं यावदित्यर्थः, पश्चात्तेषां योगान्तरसङक्रमः । सासादनसम्यग्दृष्टेः सामान्योक्तः कालः। १५
___ सम्यग्मिध्यादृष्टे नाजीवापेक्षया जघन्येनैकः समयः । तत्कथम् ? सम्यग्मिथ्यादृष्टेनानाजीवापेक्षया योगगुणपरावर्तनमपेक्ष्य जघन्येनैकसमयः। तथा हि-केषाञ्चित् गुणान्तरयुक्तवाङ्मनसान्यतरयोगकालान्त्यसमये यदा सम्यम्मिथ्यात्वसङ्क्रमणं तदैव अन्येषां योगान्तरानुभूतम् , सम्यग्मिथ्यात्वकालान्त्यसमये वाङ्मनसान्यतरयोगसक्रम इति कारणादेकः समयः। सम्यग्मिथ्यादृष्टे नाजीवापेक्षया उत्कर्षेण पल्योपमासङ्ख्येयभागः। एक जीवं प्रति सम्य- २० ग्मिध्यादृष्टेर्जघन्येनोत्कर्षेण च अन्तर्मुहूर्तः।।
चतुर्णामुपशमकानां क्षपकाणाञ्च नानाजीवापक्षया एकजीवापेक्षया च जघन्येनैकसमयः योगगुणपरावर्त्तनापेक्षया पूर्ववत् । उत्कर्षेणान्तर्मुहूर्तः । काययोगिषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येनैकः समयः। उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टयादीनां जघन्योत्कृष्टः कालो २५ मनोयोगिवत् । अयोगानां सामान्यवत् ।
वेदानुवादेन' स्त्रीवेदेषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एक जीवं प्रति
१ वेदसंज्ञित्वाभ्याम् आ०, द०, २०, ज० । २ षर्ख० का० १३९-१६१ । ३ असङ्ख्येयकालः व० । असङ्ख्येयलोकः आ०, ब०, ज०, द०। ४ षट्खं० का० १६२-२२६ । ५-दृष्ट्यसंयतासंयत-आ० ।-दृष्टिसंयतासंयत-ज०। ६ "एत्थ ताव जोगपरावत्ति-गुणपरावत्ति-मरणवाघादेहि मिच्छत्तगुणट्टाणस्स एगसमओ परूविजदे ।"-५० टी० का० पृ० ४०९ । ७ “एगजीवं पडुच्च जहण्णेण एगसमयं उक्कस्सेण अंतोमुहुत्वं ।” -पटखं० का० १६८,१६९ । स० सि० पृ० २४ । ८ षटर्ख० का० २२८-२४९ ।
For Private And Personal Use Only