SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्ती [ ११८ देवगतौ देवेषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येनान्तमुंहतः उत्पन्नमात्रापेक्षया, अन्तर्मुहूर्तानन्तरं संदृष्टिर्भवति यतः । उत्कर्षेण एकत्रिंशत्सागरोपमानि "नवमवेयकेऽपि कश्चिन्मिथ्यादृष्टिर्भवति यतः । सासादनसम्यग्दृष्टेः सम्यम्मिथादृष्टेश्च सामान्योक्तः कालः । असंयतसम्यग्दृष्टे नाजीवापेक्षया सर्वः कालः । एक जीवं ५ प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमानि । ___ इन्द्रियानुवादेन, एकेन्द्रियाणां नानाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । तत्कीदृशमिति चेत् ? उक्तलक्षणमुहूर्तमध्ये तावदेकेन्द्रियो भूत्वा कश्विजीवः षट्षष्टिसहस्रद्वात्रिंशदधिकशतपरिमाणानि ६६१३२ जन्ममरणानि अनुभवति, तथा स एव जीवः तस्यैव मुहूर्तस्य मध्ये द्वित्रिचतुःपञ्चेन्द्रियो भूत्वा यथासंख्यमशीति१० षष्टि-चत्वारिंशत्-चतुर्विंशतिजन्ममरणान्यनुभवति । सर्वेऽप्येते समुदिताः क्षुद्रभवा एतावन्त एव भवन्ति-६६३३६ । उक्तञ्च ""तिणि सया छत्तीसा छावहि सहस्स जम्ममरणानि । एवदिया खुद्दभवा हवंति अंतोमुहुत्तस्स ॥ १॥ वियलिदिएसु सीदि सहि चालीसमेव जाणाहि । पंचेंदियचउवीसं खुद्दभवतोमुहुत्तस्स ॥ २ ॥" [ यदा चैवान्तर्मुहूर्तस्य मध्ये एतावन्ति जन्ममरणानि भवन्ति तदैकस्मिन्नुच्छ्वासे अष्टादश जन्ममरणानि लभ्यन्ते । तत्रैकस्य क्षुद्रभवसंज्ञा । उत्कर्षेण अनन्तकालोऽसङ्ख्येयाः पुद्गलपरिवर्ताः। तत्कथम् ? उत्कर्षेण अनन्तकालः असंख्यातपुद्गलपरिवर्तनलक्षणो निरन्तरमेकेन्द्रिय वेनैव मृत्वा मृत्वा पुनर्भवनात् , ततो विकलेन्द्रियः पन्चेन्द्रियो वा भवति । विकलेन्द्रियाणां २० नानाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षण सङ्ख्ये यानि वर्षसहस्राणि । पञ्चेन्द्रियेषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण सागरोपमसहस्र पूर्वकोटिपृथक्त्वैरभ्यधिकम् । तत्कथम् ? पञ्चेन्द्रियमिथ्यादृष्टय कजीवं प्रति उत्कर्षेण सागरोपमसहस्र पूर्वकोटिपृथक्त्वैः षण्णवति पूर्वकोटिभिरभ्यधिकमित्यर्थः । तथा हि- नपुंसकत्रीपुंवेदे हि संज्ञित्वेन अष्टावष्टौ वारान् पूर्व२५ कोट्यायुषा समुत्पद्यते । तथैव चासज्ञिकत्वे एवमष्टचत्वारिंशद्वाराः। अवान्तरे अन्तर्मुहूर्त १ सम्यग्दृष्टिर्भ-आ०, ब०, द०, ज० । २ नवग्रैवेयकेषु क-आ०, द०, ब०, ज०। ३ सम्यग्मिथ्यादृष्टेश्च आ०, ज० । सम्यग्मिध्यादृष्टेः द०, ब०, व० । ४ षट्वं. का० १०७-१३८ । ५ गो० जी० गा. १२२-१२३ । कल्याणा० गा० ५, ६ । त्रीणि शतानि षट्त्रिंशत् षट्षष्टिसहस्रजन्ममरणानि । एतावन्तः क्षुद्रभवा भवन्ति अन्तर्मुहूर्तस्य || विकलेन्द्रियेष्वशीतिं षष्टि चत्वा रिंशदेव जानीहि । पञ्चेन्द्रिय चतुर्विंशतिं क्षुद्रभवानन्तर्मुहूर्तस्य ॥ ६ चैव आ०, ब०, द०, ज० । चैवं मुहू-ता०। ७ मृत्वा पुनर्भयात् आ०, द°, ब०, ज०। ८ यथैव आ०, ब०, ज० । ९ चासंशित्वे व० । च संशिकत्वे ज० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy