________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
प्रथमोऽध्यायः जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कृष्टो देशोनः 'अन्तर्मुहूर्तः (?) । कस्मात् ? देशोनादन्तर्मुहूर्तात् परं तद्गुणस्थानत्यागात्।
तिर्यग्गतौ तिरश्वां मिथ्यादृष्टीनां नानाजीवापेक्षया सर्वः कालः। एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण २अनन्तः कालः । असङ्ख्येयाः पुद्गलपरिवर्ताः। सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टिसंयतासयतानां सामान्योक्तः कालः । असंयतसम्यग्दृष्टस्तिरश्चः नाना- ५ जीवापेक्षया सर्वः कालः । एकजीवं तियेचं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रीणि पल्योपमानि। कथमिति चेत् ? उच्यते-तियंगसंयतसम्यग्दृष्टय'कजीवं प्रति उत्कर्षेण दर्शनमोहक्षपकवेदकापेक्षया 'त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वैरभ्यधिकानि, सप्तचत्वारिंशत्पूर्वकोटिभिरभ्यधिकानीत्यर्थः । तथा हि-पुनपुंसकत्रीवेदेन अष्टावष्टौ वारान् पूर्वकोट्यायुषा "उत्पद्य अवान्तरे अपर्याप्तमनुष्यक्षुद्रभवेन अष्टौ वारान् उत्पद्यते। पुनरपि नपुंसकत्रीवेदेन १० अष्टावष्टौ पुंवेदेन सप्तेति । ततो भोगभूमौ त्रिपल्योपमायुषि भोगभूमिजानां नियमेन देवेषु उत्पादात् पश्चात् गत्यतिक्रमः । पूर्वकोटिपृथक्त्वाधिक्यं देवगतिग्रहणेन पूर्यत इति वेदितव्यम् ।
मनुष्यगतौ मनुष्येषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वैरभ्यधिकानि । सासादनसम्य- १५ रदृष्ट नाजीवापेक्षया जघन्येनैकः समयः उत्कर्षेणान्तर्मुहूर्तः। एक जीवं प्रति जघन्येनेकः समयः, उत्कर्षेण षडावलिकाः । सम्यग्मिथ्यादृष्टे नाजीवापेक्षया एकजीवापेक्षया च जघन्यश्चोत्कृष्टश्च कालोऽन्तर्मुहूर्तः। असंयतसम्यग्दृष्ट नाजीवापेक्षया सर्वः कालः। एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रीणि पल्योपमानि सातिरेकाणि । तत्कथम् ? कर्मभूमिजो हि मनुष्यः क्षायिकसम्यक्त्वयुक्तो दर्शनमोहक्षपकवेदकयुक्तो वा भोगभूमिजमनुष्येषूत्पद्यते इति [ ततः ] २० मनुष्यगतिपरित्यागात् १ सातिरेकाणि पश्चाद्गत्यतिक्रमः। देशसंयतादीनां दशानां गुणस्थानानां सामान्योक्तः कालः।
१ नारकेषु सम्यग्दष्टेरयं कालः चिन्त्यः । यतः घट्खण्डागमादिषु तस्येत्थं निरूपणम्"उक्कस्सं सागरोपमं तिष्णि सत्त दस सचारस बावीस तेत्तीसं सागरोवमाणि देसूणाणि ।" ४६ । ..... 'एवं तीहि अंतोमुहुत्तेहि ऊणा अप्पप्पणो उक्कस्साउट्टिदी असंजदसम्मादिहिउक्कस्सकालो होदि । णवरि सत्तमाए छहि अंतोमुहुत्तेहि ऊणा उक्कस्सद्विदित्ति वत्तव्वं ।" -पट्खं०, ३० टी० का० पृ० ३६२ । “उत्कर्षेण उक्त एवोत्कृष्टो देशोनः ।"-स० सि० पृ० २२ । २ अनन्तकालः आ०, ८०. व०, ब० । ३ परावर्ताः ज०। ४ अयं कालः त्रिविधपञ्चेन्द्रियतिर्यञ्चमिथ्यादृष्टे ति । यथा-"उक्कसं तिण्णि पलिदोवमाणि पुब्बकोडिपुत्तेणब्महियाणि ।" -षट्खं० का० ५९ । ५ उत्पद्यते मा०। ६ नपुंसकस्त्रीवेदे मा०, २०, ब०। नपुंसकवेदे ज०। ७-विक्रमः आ०, द, व०, ज०। ८ ग्रहणेन वेदि-आ०, द०, ब०, ज० । ग्रहणेन पूर्वतः वेदि-व०। ९क्षपायुक्तः आ०, द०, ब०, ज०। १० "तिण्णि पलिदोवमाणमुवरि देसूणपुबकोडितिभागुवलंमा ।"-ध० टी० का० पृ० ३७८ ।
For Private And Personal Use Only