________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०५
तत्त्वार्थवृत्तौ
[ १८ अप्रमत्तैकजीवं प्रति जघन्येनकः समयः । तथा अप्रमत्तस्थाने स्थितो निजायुःकालान्तसमये प्रमत्तगुणस्थानं प्रतिपद्य म्रियते इति प्रमत्तैकजीवं प्रत्यपि जघन्येनैकः समयः, उत्कर्षेणान्तर्मुहूर्तः।
___चतुर्णामुपशमकानां नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः समयः, ५ उत्कर्षेणान्तर्मुहूर्तः । तत्कथम् ? चतुर्णामुपशमकानां चतुःपञ्चाशत् यावत् यथासम्भवं भवन्तो 'युगपदपि प्रवेशे मरणासम्भवात् नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनकसमयः । नन्वेवं मिथ्यादृष्टेरप्येकसमयः कस्मान्न सम्भवतीत्यनुपपन्नम् ; कोऽर्थः ? मिथ्यादृष्टेरेकसमयः कालो न घटते इत्यर्थः । कस्मात् ? प्रतिपन्नमिथ्यात्वस्य अन्तर्मुहूर्तमध्ये मरणासम्भवात् । तदुक्तम्
"मिथ्यात्वं दर्शनात् प्राप्ते नास्त्यनन्तानुवन्धिनाम् ।
यावदावलिका पाकान्तर्मुहूर्ते मृतिर्न च ॥ १ ॥" [ ] सम्यग्मिध्यादृष्टेः परिमरणकाले तद्गुणस्थानत्यागान्नैकः समयः सम्भवति इति प्रतिपन्नासंयतसंयतासंयतगुणोऽपि अन्तर्मुहूर्तमध्ये न म्रियते । अतोऽसंयतसंयतासंयतयोरपि
एकः समयो न भवति। १५ चतुर्णां क्षपकाणामयोगकेवलिनाञ्च नानाजीवापेक्षया एकजीवापेक्षया च जघन्यश्च उत्कृष्टश्च कालोऽन्तर्मुहूर्तः । तत् कथम् ? चतुर्णा क्षपकाणामपूर्वकरणानिवृत्तिकरणसूक्ष्मसाम्परायक्षीणकषायाणामयोगकेवलिनाञ्च मोक्षगामित्वेन अन्तरे मरणासम्भवात् नानकजीवापेक्षया जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः कालः।।
सयोगिकेवलिनां नानाजीवापेक्षया सर्वः कालः, एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । २० कुतः ? सयोगिकेवलिगुणस्थानानन्तरमन्तर्मुहूर्तमध्ये अयोगिकेवलिगुणस्थानप्राप्तेः उत्कर्षण
पूर्वकोटी देशोना। कुतः ? अष्टवर्षानन्तरं तपो गृहीत्वा केवलमुत्पादयतीति कियद्वर्षहीनत्वात् पूर्वकोटी वेदितव्या।
विशेषेण ‘गत्यनुवादेन नरकगतौ 'नारकेषु सप्तहुँ भूमिषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः। एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः कालः, पश्चात् मिथ्यादृष्टिगुणस्थानत्यागे२५ सम्भवात् । उत्कर्षेण प्रथमभूम्यादिषु यथासङ्ख्यमेकः सागरः, त्रयः सागराः, सप्त सागराः,
दश सागराः, सप्तदश सागराः, द्वाविंशति सागराः त्रयस्त्रिंशत्सागराश्चेति । सासादनसम्यग्दृष्टः सम्यग्मिध्यादृष्टश्च सामान्योक्तः कालः । असंयतसम्यग्दृष्टेन नाजीवापेक्षया सर्वः कालः । एक
१-या ज-द०, आ०, ज० । २ युगपदेकस्मिन्नपि प्रदेशे आ०, ब०, ५०, ज०, द० । ३ प्राप्तेर्ना-ब० । ४-न च अ-आ०, ब०, व०, ज०, द० । ५-तका-आर, ब०, २०, २०, ज० । ६. तः कालः कु-आ०। ७ 'अट्ठहि वरसेहि अट्टहि अंतोमुहुचेहि य ऊणपुवकोडी सजागकेवलिकालो होदि ।"-३० टो० का० पृ० ३५७ । ८ षट्वं ० का० ३३-१०६ । ९ नरकेषु आ०, १०, २०, ज०। १० सप्तभू-आ० । ११-न त्यागास-व० ।-नयोगसंपा।
For Private And Personal Use Only