SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्ती १२८] "दंडजुगे ओरालं कवाटजुगले य पदरसंवरणे । मिस्सोरालं भणियं सेसतिए जाण कम्मइयम् ॥ १॥", [पञ्चसं० १२१९९] दण्डकपाटयोश्च पिण्डिते अल्पक्षेत्रतया समचतुरस्ररज्ज्वादिव्याप्तेरभावात् सिद्धो लोक५ स्यासंख्येयभागः। अनाहारकेषु मिथ्याष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः एकादश चतुर्दशभागा वा देशोनाः स्पृष्टाः । तत्कथम् ? अनाहारकेषु सासादनस्य षष्ठपृथिवीतो निःसृत्य तिर्यग्लोके प्रादुर्भावात् पञ्च रज्जवः, अच्युतादागत्य तिर्यग्लोके प्रादुर्भावात् षडित्येकादश । ननु पूर्व द्वादशोक्ता इदानीं त्वेकादशेति पूर्वापरविरोध इति चेत् ; न; मारणान्तिकापेक्षया पूर्व तथाभिधानात् । न च मारणान्तिकावस्थायामनाहारकत्वं १० किन्तूत्पादावस्थायाम् । सासादनश्च मारणान्तिकमेवैकेन्द्रियेषु करोति नोत्पादम , उत्पादाव स्थायां सासादनत्वत्यागात् । अनाहारकेषु असंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः षट्चतुदशभागा वा देशोनाः स्पृष्टाः । सयोगकेवलिना लोकरयाख्येयभागः सर्वलोको वा । अयोगकेवलिनां लोकस्यासंख्येयभागः स्पर्शनम् । इति स्पर्शनव्याख्यानं समाप्तम् । __ अथ कालस्वरूपं निरूप्यते । स कालः सामान्यविशेषभेदात् द्विप्रकारः । सामान्यतस्ता१५ वत् मिथ्यादृष्टे नानाजीवापेक्षया सर्वः कालः । एकजीवापेक्षया त्रयो भङ्गाः। ते के ? अनाद्य नन्तः कस्यचित् , कस्यचिदनादिसान्तः, कस्यचित्सादिसान्तः। स तु सादिसान्तो जघन्येनान्तर्मुहूर्तः । अन्तर्मुहूर्त इति कोऽर्थः ? त्रीणि सहस्राणि सप्त शतानि त्र्यधिकसप्ततिरुच्छ्वासाः मुहूर्तः कथ्यते ।। ३७७३ ॥ तस्यान्तरन्तर्मुहूर्तः । संमयाधिकामावलिकामादि कृत्वा समयोनमुहूर्त यावत् । स च अन्तर्मुहूर्त इत्थमसंख्यातभेदो भवति । तथा चोक्तम् "तिण्णि सहस्सा सत्त य सदाणि तेहत्तरं च उस्सासा । एसो भवदि मुहुत्तो सव्वेसिं चेव मणुयाणं ॥१॥[ उत्कर्षेण अर्द्धपुद्गलपरिवत्तॊ११ देशोनः। सासादनसम्यग्दृष्टे नाजीवापेक्षया जघन्येनकसमयः । उत्कर्षेण पल्योपमाऽसंख्येय. भागः । १२एकजीवं प्रति जघन्येनैकः ५३ समयः । उत्कर्षेण षडावलिकाः। आवलिका च २५ असंख्यातसमयलक्षणा भवति । तथा चोक्तम्-१५ १ परदसं-ता० । पयरसं०-व० । दण्डयुगे औदारिकं कपाटयुगले च प्रतरसंवरणे । मिश्रौदारं भणितं शेषत्रये जानीहि कार्मणम् ॥ २-ते कालः आ०, ब०, द०, ज० । ३ षट्खं० का० १-३२ । ४ भागाः ज०। ५ अभव्यस्य । ६ भव्यस्य । ७ सादिमिथ्यादृष्टेः पुनरुत्पन्नसम्यग्दर्शनस्य । ८ समयाधिकानामावलि-आ०, द०, ३० । ९ एसे ता० । १० मणुयाणां ता । त्रीणि सहकाणि सप्त च शतानि त्रिसप्ततिश्च उश्वासाः। एतत् भवति मुहूर्ते सर्वेषाञ्चैव मनुजानाम् ।। ११-चर्को सा-८०, ब० । १२ एक जीवं आ०, ब०, ज० । १३-नैकस-आ०, ब०, द०, व०, ज० १४ साधिकषडावलिकालशेषे सासादनगुणस्थानप्राप्स्यभावनियमात् । द्रष्टव्यम्-ध० टो० का० पृ० ३४२ । १५ गो० जीव० गा० ५७३-५७४ । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy