________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५
१८]
प्रथमोऽध्यायः "तिहं दोहं दुहं च्छण्हं. दोहं च तेरसण्हं च । एत्तो य चोदसण्हं लेस्सा भवणादिदेवाणं ॥१॥"
[गो० जी० गा० ५३३ ] ततोऽन्यत्र तिर्यमनुष्येषु लेश्यानियमाभावः ।.. प्रमत्तादिसयोगकेवल्यन्तानामलेश्यानाञ्च सामान्योक्तं स्पर्शनम् ।
भंव्यानुवादेन भव्यानां सर्वगुणस्थानानां सामान्योक्तं स्पर्शनम् । अभव्यैः सर्वलोकः स्पृष्टः।
सम्यक्त्वानुवादेन क्षायिकसैंदृष्टीनामेकादशगुणस्थानानां सामान्योक्तं स्पर्शनमेव वर्तते, किन्तु देशसंयतानां क्षायिकसदृष्टीनां लोकस्यासंख्येयभागः स्पर्शनम् । क्षायिकसम्यक्त्वयुक्तानां देशसंयतानां षडपि रजवः कुतो नेति नाशङ्कनीयम् ? तेषां नियतक्षेत्रत्वात् । १० कर्मभूमिजो हि मनुष्यः सप्तप्रकृतिक्षयप्रारम्भको भवति । क्षायिकसम्यक्त्वलाभात् पूर्वमेव तियच बद्धायुष्कस्तु संयतासंयतत्वं न लभते । "अणुव्वयमहव्वयाई ण लॅमइ देवाउगं मोत्तु"
[गो० कर्म० गा० ३३४] इत्यभिधानात् तिर्यगल्पतरस्थितिं परिहत्तुं न शक्नोतीत्यर्थः । वेदकसम्यग्दृष्टीनां १५ सामान्योक्तं स्पर्शनम् । औपशमिकयुक्तानामसंयतसम्यग्दृष्टीनां सामान्योक्तं स्पर्शनम् । देशसंयतादीनामौपशमिकसम्यक्त्वयुक्तानां लोकस्यासंख्येयभागः स्पर्शनम्। औपशमिकसम्यक्त्वयुक्तानां देशसंयतानां कुतो लोकस्यासंख्येयभाग इति यदि पृच्छसि ? "मनुजेष्वेतत्सम्भवात् । वेदकपूर्वकौपशमिकयुक्तो हि श्रेण्यारोहणं विधाय मारणान्तिकं करोति, मिथ्यात्वपूर्वकौपशमिकयुक्तानां मारणान्तिकासम्भवात् लोकस्यासंख्येयभागः । सासादनसम्यग्दृष्टिसम्य- २० ग्मिथ्यादृष्टिमिथ्यादृष्टीनां सामान्योक्तं स्पर्शनम् ।
संज्ञानुवादेन संज्ञिनां चक्षुर्दर्शनिवत् । असंज्ञिभिः सर्वलोकः स्पृष्टः । ये तु न संज्ञिनः नाप्यसंज्ञिनस्तेषां सामान्योक्तं स्पर्शनम्।
"आहारानुवादेन आहारकाणामादितो द्वादशगुणस्थानानां सामान्योक्तं स्पर्शनम् । सयोगकेवलिना लोकस्यासंख्येयभागः। तत्कथम् ? आहारकावस्थायां समचतुरस्ररज्ज्वादिव्या- २५ प्रभावात् । दण्डकपाटावस्थायां कपाटप्रतरावस्थायाश्च सयोगकेवली औदारिकौदारिकमिश्रशरीरयोग्यपुद्गलादानादाहारकः । तथा चोक्तम्
१ त्रयाणां द्वयोः द्वयोः षण्णां द्वयोः त्रयोदशानाञ्च । एतस्माच्चतुर्दशानां लेश्या भवनादिदेवानाम् ॥ २ षट्वं० फो० १६५, १६६। ३ षट्वं० फो० १६७-१७६ । ४-सम्यग्दृष्टीनाम् द०, व० । ५ लहइ आ०, ब०, द०, व० । अणुव्रतमहाव्रतानि न लभते देवायुर्मुक्त्वा । ६-ति चेत् पृ-आ०, २०, द०, ज०। ७ मनुष्येष्वे-आ०, ब०, द०, ज । ८ षट्खं० फो० १७७-१८० । ९ षट्खं० फो० १८१-१८५ ।
For Private And Personal Use Only