SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० तत्त्वार्थवृत्तौ १४ स्पृष्टः । तेजोलेश्यैमिध्यादृष्टि सासादन सम्यग्दृष्टिभिर्लोकस्यासंख्येयभागोऽष्टो' नव चतुर्दशभागा वा देशोनाः स्पृष्टाः । तेजोलेश्यैः सम्यग्मिथ्यादृष्टयसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागोऽष्टौर नव चतुर्दशभागा वा स्पृष्टाः। तेजोलेश्यः संयतासंयतैलॊकस्यासंख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः। संयतासंयतैलॊकस्यासंख्येयभागो अँध्यर्धचतुर्दशभागो ५ वा देशोनाः । अस्यायमर्थः-तेजोलेश्यः संयतासंयतः प्रथमस्वर्गे मारणान्तिकोत्पादापेक्षया अध्यर्धचतुर्दशभागः सार्धरज्जुः स्पृष्टा । तेजोलेश्यः प्रमत्ताप्रमत्तलॊकस्यासंख्येयभागः । पद्मलेश्यैरादितश्चतुर्गुणस्थानैलॊकस्यासंख्येयभागोऽष्टी चतुर्दशभागा वा देशोनाः स्पृष्टाः । पद्मलेश्यैः संयतासंयतैलेकिस्यासंख्येयभागः पञ्च चतुर्दशभागा वा देशोनाः। तत्कथम् ? पद्म लेश्यः संयतासंयतैः सहस्रारे मारणान्तिकादिविधानात् पञ्च रज्जवः स्पृष्टाः । पद्मलेश्यः प्रम१० त्ताप्रमतर्लोकस्यासंख्येयभागः स्पृष्टः । शुक्ललेश्यैरादितः पश्चगुणस्थानलॊकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । तत्कथम् ? शुक्ललेश्यमिथ्यादृष्टयादि संयतासंयतान्तर्मारणान्तिकाद्यपेक्षया। सम्यग्मिथ्यादृष्टिभिस्तु मारणान्तिके तद्गुणस्थानत्यागात् विहारापेक्षया षट रज्जयः स्पृष्टाः। अष्टावपि कस्मान्न स्पृष्ठा इति नाशङ्कनीयम् ? शुक्ललेश्यानामधो विहाराभावात् । तदपि कस्मात् ? यथा कृष्णनीलकापोतलेश्यात्रयापेक्षया अवस्थितलेश्या नारका वर्तन्ते १ तथा १५ तेजः-पद्मशुक्ललेश्यात्रयापेक्षया देवा अपि अवस्थितलेश्या वर्तन्ते । "तेऊ तेऊ य तहा तेऊ पउमा य पउमसुका य । सुक्का य परमसुक्का लेस्सा भवणादिदेवाणं ॥१॥" [गो० जी० गा० ५३४ ] ५२अस्यायमर्थः-भवनवासिव्यन्तरज्योतिष्केषु जघन्या तेजोलेश्या । सौधर्मेशानयोः २० मध्यमा तेजोलेश्या । सनत्कुमारमाहेन्द्रयोरुत्कृष्टा तेजोलेश्या ? जघन्यपद्मश्याया अवेवक्षया । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिटशुक्रमहाशुक्रषु३ मध्यमा पद्मलेश्या जघन्यशुक्ललेश्याया अविक्षया । शतारसहस्रारयोर्जघन्या शुक्ललेश्या उत्कृष्टपद्मलेश्याया अविवक्षितत्वात् । आनतप्राणतारणाच्युतनवग्रैवेयकेषु मध्यमा शुक्ललेश्या । नवानुदिशपञ्चानुत्तरेषु उत्कृष्टा शुक्ललेश्या । तथा चोक्तम् १-टी च-आ०, द०, व०, ज० । २-ष्टौ च-आ०, ६०, व०। ३ वा देशोनाः व०। ४ “दिवड्ढ़ चोद्दसभागा वा देसूणा"-षट्वं० फो० १५५ । ५-स्वर्गमा-आ०, २०, २० । स्वर्गः य० । ६ सा अर्ध-आ०, द०, ब० । ७ भागः स्पृष्टः । ८ पनलेश्यैः मिथ्याहयाद्यसंयत सम्यग्दृष्ट्यन्तैः लोक-२०। ९-दिसंयतान्तैः द०, व०, आ०, प० । १० तथा पन-मा, ब० । तथा पीतप-द० । ११ "तेऊ तेऊ तेऊ पम्मा पम्मा य पम्मसुक्का य । सुक्का य परमसुक्का भवणतिया पुण्णगे असुहा ।"-गो. जी गा० ५३४ । तेजस्तेजश्न तथा तेजः पद्मा च पद्मशुक्ला च । शुक्ला च परमशुक्ला लेश्या भवनादिदेवानाम् ॥ १२ अस्य गाथासूत्रस्य अयमर्थः । अथायमर्थः ज० । १३-कापिष्ठशुक्रमहाशुक्रषु-३०, द। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy