________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८]
प्रथमोऽध्यायः दर्शनानुवादेन चक्षुर्दशनिनामादितो द्वादशगुणस्थानानां पञ्चेन्द्रियवत् । तत्कथम् ? पञ्चेन्द्रियेषु मिथ्या दृष्टिभिर्लोकस्यासंख्येयभागः २स्वक्षेत्रविहारापेक्षया। अष्टौ• चतुदर्शभागा वा देशोनाः परक्षेत्रविहारापेक्षया। सर्वलोको वा मारणान्तिकोत्पादापेक्षया। शेषाणां सामान्योक्तमिति पञ्चेन्द्रियवत् । अचक्षुर्दर्शनिनामादितो द्वादशगुणस्थानानामवधिकेवलदर्शनिनाश्च सामान्योक्तं स्पर्शनम् । ___'लेश्यानुवादेन सप्तनरकेषु तावत् प्रथमे नरके कापोती लेश्या। द्वितीये च नरके कापोती लेश्या । तृतीये नरके उपरि कापोती, अधो नीला। चतुर्थे नरके नीलेव लेश्या । पञ्चमे नरके उपरि नीला, अधः कृष्णा । षष्ठे नरके कृष्णलेश्या । सप्तमे नरके परमकृष्णलेश्या । तथा चोक्तम्
"काऊ काऊ य तहा णीला णीला य णीलकिण्हा य । किण्हा य परमकिण्हा लेस्सा पढमादिपुढवीसु ॥"
[गो० जी० गा० ५२८ ] इति सप्तनरके लेश्याप्रदानम् । तत्र लेश्यानुवादेन कृष्णनीलकापोतलेश्यैमिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिः कृष्णनीलकापोतलेश्यैलॊकस्यासंख्येयभागः पञ्च चत्वारो द्वौ चतुर्दशभागा वा देशोनाः स्पृष्टाः । तत्कथम् ? षष्ठयां पृथिव्यां कृष्णलेश्यः सासा- १५ दनसम्यग्दृष्टिभिर्मारणान्तिकोत्पादापेक्षया पञ्च रज्जवः स्पृष्टाः । पञ्चमपृथिव्यां कृष्णलेश्याया अविवक्षया नीललेश्यैश्चतस्रो रज्जवः स्पृष्टाः । तृतीय-पृथिव्यां नीललेश्याया अविवक्षया कापोतलेश्यैः द्वे रज्जू स्पृष्टे । सप्तमपृथिव्यां यद्यपि कृष्णलेश्या वर्तते तथापि मारणान्तिकावस्थायां सासादनस्य नियमेन मिथ्यात्वग्रहणादिति नोदाहृता। अत्र पञ्च चत्वारो द्वौ चतुर्दशभागा वा देशोनाः।
सासादनसम्यग्दृष्टीनामादित्रिलेश्यानां दत्ता द्वादश भागाः कस्मान्न लभ्यन्त इति चेत् ? 'षष्ठीतो मध्यलोकं यावत् पञ्च लोकाग्रं यावत्सप्त इति द्वादशभागाः कुतो न दत्ताः' इति चेत् पृच्छसि ? तत्र षष्टनरके अवस्थितलेश्यापेक्षया पञ्चैव रज्जवः स्पृष्ठा भवन्ति, यतो मध्यलोकादुपरि कृष्णलेश्या नास्ति । "पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु" [त० सू० ४।२२] इति वचनात् । अथवा येषां मते सासादनसम्यग्दृष्टिरेकेन्द्रियेषु नोत्पद्यते तन्मतापेक्षया द्वादश- २५ भागा न दत्ता।
सम्यम्मिथ्यादृष्टयसंयतसम्यग्दृष्टिभिः कृष्णनीलकापोतलेश्यैर्लोकस्यासंख्येयभागः
- १ षट्वं० फो० १४०-१४५ ॥२ स्वक्षेत्रव्यवहा-द० । ३-मवधिदर्शन के-ता०,व०। ४ षट्खं० फो० १४६-१६४ । ५ कापोती कापोती च तथा नीला नीला च नीलकृष्णा च । कृष्णा च परमकृष्णालेश्या प्रथमादिपृथिवीषु ॥ ६ भागाः आ०। ७ कृष्णनीलैः सा-द० । कृष्णलेश्या सा-आ० । ८ अविवक्षितत्वात् आ०, २०, ब०। ९-दिति कारणात् नो-आ०, ५०, द० । १०-मादितो लेश्यानाम् आ०, २०, २०।
For Private And Personal Use Only