SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ तत्त्वार्थवृत्ती १८] ग्दृष्टीनाम् एकेन्द्रियेपूत्पादाभावात् परक्षेत्रविहारापेक्षया अष्टरज्जुस्पर्शनं वेदितव्यम् । 'इन्द्रियानुवादेन, एकेन्द्रियैः सर्वलोकः स्पृष्टः । विकलेन्द्रियैर्लोकस्यासंख्येयभागः सर्यलोको वा । तन्मारणान्तिकापेक्षया ज्ञातव्यम् । पञ्चेन्द्रियेषु मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः स्वक्षेत्रविहारापेक्षया स्पृष्टः । परक्षेत्रविहारापेक्षया अष्टौ चतुदर्शभागा वा देशोनाः । ५ मारणान्तिकोत्पादापेक्षया सर्वलोको वा । सासादनसम्यग्दृष्टयादित्रयोदशगुणस्थानानां पञ्चेन्द्रियाणां सामान्योक्तं स्पर्शनम् । कायानुवादेन स्थावरकायिकैः सर्वलोकः स्पृष्टः । त्रसकायिकानां स्पर्शनं पञ्चेन्द्रियवत् । __ योगानुवादेन वाङ्मनसयोगिनां मिथ्यादृष्टीनां लोकस्याऽसंख्येयभागः अष्टौ चतु१० दशभागा वा देशोनाः सर्वलोको वा स्पर्शनम् । सासादनसम्यग्दृष्टयादिक्षीणकषायान्तानां सामान्योक्तं स्पर्शनम् । सयोगकेवलिनां लोकस्यासंख्येयभागः। तत्कथम् ? सयोगकेवलिनां दण्डकपाटप्रतरलोकपूरणावस्थायां वाङ्मनसवर्गणामवलम्ब्य आत्मप्रदेशपरिस्पन्दाभावात् लोकस्यासंख्येयभागः स्पर्शनं वेदितव्यम् । काययोगिनां मिथ्यादृष्टयादित्रयोदशगुणस्थानानामयोगकेवलिनाञ्च सामान्योक्तं स्पर्शनम् । "वेदानुवादेन स्त्रीपुंवेदैमिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः स्पृष्टः अष्टौ नव चतुर्दशभागा वा देशोनाः सर्वलोको वा। तन्मारणान्तिकोत्पादापेक्षया ज्ञातव्यम् । सासादनसम्यम्हष्टिभिः स्त्रीपुंवेदैः लोकस्यासंख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः। ते तु नवभागास्तृतीयभूमिलोकायोत्पादापेक्षया वेदितव्याः । सम्यम्मिथ्यादृष्टयनिवृत्तिबादरान्तानां स्त्री पुंवेदैः सामान्योक्तं स्पर्शनं कृतम् । नपुंसकवेदेषु मिथ्यादृष्टीनां सासादनसम्यग्दृष्टीनाञ्च २० सामान्योक्तं स्पर्शनम् । सम्यग्मिथ्यादृष्टिभिर्नपुंसकवेदैर्लोकस्यासंख्येयभागः स्पृष्टः । असंयत सम्यग्दृष्टिसंयतासयतैनपुंसकवेदैर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । प्रमत्ताद्यनिवृत्तिबादरान्तानामवेदानाञ्च सामान्योक्तं स्पर्शनम्। कषायानुवादेन चतुःकषायाणामेककषायाणामकषायाणाञ्च सामान्योक्तं स्पर्शनम् । ज्ञानानुवादेन मत्यज्ञानिनां श्रुताज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनाञ्च सामा२५ न्योक्तं स्पर्शनम् । विभङ्गज्ञानिनां मिध्यादृष्टीनां लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः सर्वलोको वा तन्मारणान्तिकोत्पादापेक्षया । सासादनसम्यग्दृष्टीनां सामान्योक्तं स्पर्शनम् । आभिनिबोधिकादिपञ्चज्ञानिनां सामान्योक्तं स्पर्शनम् । १'संयमानुवादेन पञ्चप्रकारसंयतानों देशसंयतानामसंयतानाञ्च सामान्योक्तं स्पर्शनम् । १ षट्वं फो० ५७-६५ । २ षटर्ख० फो० ६६-७३ । ३ षट्खं० फो० ७४-१०१ । ४ मिथ्यावृष्टिमिः ता०, २०। ५ षट्खं फो० १०२-११९ । ६-मारणान्तिकापेक्षया भा०, द०, १०। ७ षर्ख० फो० १२०-१२२। ८-मेककषायाणां च सा-आ०, द०, ब० । ९षट्खं० फो० १२३-१३१ । १०-नां सा-ता०, २०।११ षट्खं० फो० १३२-१३९ । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy