________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७
१२८]
प्रथमोऽध्यायः परिमाणाभावात् , 'तत्रत्यनारकैश्चतुर्गुणस्थानः लोकस्यासंख्येयभागः स्पृष्टः। द्वितीयतृतीयचतुर्थपञ्चमषष्ठभूमीनां मिथ्यादृष्टिसासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः एको द्वौ त्रयश्वत्वारः पञ्च चतुर्दशभागा वा देशोनाः स्पृष्टाः। तत्कथम् ? द्वितीयपृथिव्यास्तिर्यग्लोकाद्धः रज्जुपरिमाणत्वात् एको भागः। तृतीयपृथिव्यास्तिर्यग्लोकादधः द्विरज्जुपरिमाणत्वात् द्वौ भागौ। चतुर्थपृथिव्यास्तिर्यग्लोकादधः त्रिरज्जु परिमाणत्वात् त्रयो भागाः। पञ्चमपृथिव्या- ५ स्तिर्यग्लोकादधः चतूरज्जुपरिमाणत्वात् चत्वारो भागाः । षष्ठपृथिव्यास्तिर्यग्लोकादधः पश्चरज्जुपरिमाणत्वात् पश्च भागाः। तत्रत्यमिथ्यादृष्टिसासादनसम्यग्दृष्टिभियथासंख्यमेते भागाः स्पृष्टाः । सम्यग्मिथ्यादृष्टीनां मारणान्तिकोत्पादायुर्बन्धकाले नियमेन तद्गुणस्थानत्यागात् स्वस्थानविहारापेक्षया लोकस्यासंख्येयभागः । तेषां सम्यग्मिथ्यादृष्टीनां नियमेन मनुष्येष्वेवोत्पादान्मनुष्याणामल्पक्षेत्रत्वात् सम्यग्मिध्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्ये- १० यभागः स्पृष्टः, स्वक्षेत्रविहारापेक्षया इत्यर्थः । सप्तम्यां पृथिव्यां मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः षट्चतुर्दशभागा वा देशोनाः स्पृष्टाः । असंख्येयभागः स्वस्थानविहारापेक्षया । षट् रजवो मारणान्तिकापेक्षया स्पृष्टा इत्यर्थः । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टयसंयतसम्यग्दृष्टिभिः सप्तमपृथिव्या नारकैः स्वस्थानविहारापेक्षया लोकस्यासंख्येयभागः स्पृष्टः । मारणान्तिकापेक्षयापि एषां स्पर्शनं कस्मान्न प्रतिपादितमिति चेत् ? सप्तमपृथिवीनारकाणां १५ मारणान्तिकोत्पादायुर्बन्धकाले नियमेन सासादनादिगुणस्थानत्रयत्यागात् सासादनोऽधो गच्छतीति नियमात् । तिर्यग्गतौ, तिरश्चां मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः सप्त चतुर्दशभागा वा देशोनाः स्पृष्टाः। तत्कथम् ? तिर्यक्सासादनस्य लोकाग्रे बादरपृथिव्यब्वनस्पतिषु मारणान्तिकापेक्षयापि सप्त रजवः । सम्यग्मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः स्पृष्टः । असंयतसम्यग्दृष्टिभिः संयतासंयतैः लोकस्यासंख्येयभागः २० षट् चतुर्दशभागा वा देशोनाः स्पृष्टाः। मनुष्यगतौ मनुष्यमिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः सर्वलोको वा स्पृष्टः । तत्कथम् ? मारणान्तिकापेक्षया पृथिवीकायिकादेस्तत्रोत्पादापेक्षया वा। यो हि यत्रोत्पद्यते तस्योत्पादावस्थायां तव्यपदेशो भवति । सर्वलोकस्पर्शनं च अग्रे सर्वोत्थं द्रष्टव्यम् । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः सप्त चतुर्दशभागा वा देशोनाः स्पृष्टाः । सम्यग्मिथ्यादृष्ट्याद्ययोगिकेवल्यन्तानां स्पर्शनं क्षेत्रवद्वेदितव्यम् ।
२५ देवगतौ देवैर्मिथ्यादृष्टिभिः सासादनसम्यग्दृष्टिभिर्लोकस्याऽसंख्येयभागः अष्टी नव चतुर्दशंभागा वा देशोनाः स्पृष्टाः । तत्कथम् ? मिथ्यादृष्टिसासादनसम्यग्दृष्टिदेवानां कृततृतीयनरकभूमिविहृतीनां लोकाग्रे बादरपृथिव्यब्वनस्पतिमारणान्तिकापेक्षया नव रज्जवः स्पर्शनम् । एवमुत्तरत्रापि नवरज्जुक्तिर्वेदितव्या । सम्यग्मिध्यादृष्टयसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः स्पृष्टाः । तत्कथम् ? सम्यग्मिथ्यादृष्टयसंयतसम्य- ३०
१ सत्र ना-आ०, २०, ५०।२ बन्धनका-आ० ।३ मानुष्याणां ता० । ४ सप्तपृ-आ०, द०, ब० ।५-टाः ति-द०, आ०, ब० । ६ विकृतीनाम् आ०, ५०, द० । ७ रज्जवः स-आ०, ब०, ३० । रज्जुपृथ्विवे-व०।
For Private And Personal Use Only