________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
१६८] 'सामान्येन मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । अथ कोऽसौ लोक इति चेत् ? उच्यतेअसंख्यातयोजनकोट्याकाशप्रदेशपरिमाणा रज्जुस्तावदुच्यते । तल्लक्षणसमचतुरस्ररज्जुत्रिचत्वारिंशदधिकशतत्रयपरिमाणो लोक उच्यते । स लोको मिथ्यादृष्टिभिः सर्वः स्पृष्ट इति । उक्तलक्षणे लोके स्वस्थानविहारः परस्थानविहारः मारणान्तिकमुत्पादश्च प्राणिभिर्वि५ धीयते । तत्र स्वस्थानविहारापेक्षया सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः स्पृष्टः। एवमग्रेऽपि सर्वत्र स्वस्थानविहारापेक्षया लोकस्यासंख्येयभागो ज्ञातव्यः । परस्थानविहारापेक्षया तु सासादनदेवानां प्रथमपृथिवीत्रये विहारात् रज्जुद्रयम् । अच्युतान्तोपरिविहारात् षड् रज्जव इत्यष्टौ द्वादश वा चतुर्दशभागा देशोनाः स्पृष्टाः । द्वादशभागाः कथं स्पृष्टा इति चेत् ? उच्यते
सप्तमपृथिव्यां परित्यक्तसासादनादिगुणस्थान एव मारणान्तिकं विदधातीति नियमात् षष्ठीतो १० मध्यलोके पञ्च रजवः सासादनो मारणान्तिकं करोति । मध्यलोकाच्च लोकाग्रे बादर
पृथिवीकायिकबादरापकायिकबादरवनस्पतिकायिकेषु उत्पद्यते इति सप्त रजवः । एवं द्वादश रजवो भवन्ति । सासादनसम्यग्दृष्टिर्हि वायुकायिकेषु तेजःकायिकेषु नरकेषु सर्वसूक्ष्मकायिकेषु च "चतुर्षु स्थानकेषु नोत्पद्यत इति नियमः । तथा चोक्तम्
"वज्जिअ ठाणचउक्कं तेऊ वाऊ य णरयसुहुमं च ।
अण्णस्थ सव्वठाणे उववज्जदि सासणो जीवो ॥" [ देशोना इति कथम् ? केचित् प्रदेशाः सासादनसम्यग्दर्शनयोग्या न भवन्तीति देशोनाः । एवमुत्तरत्रं सर्वत्रापि १ अस्पर्शनयोग्यापेक्षया देशोनत्वं वेदितव्यम् । सम्यग्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिमिर्लोकस्य असंख्येयभागः, अष्टौ वा चतुर्दशभागा देशोनाः स्पृष्टाः।
तत्कथम् ? सम्यग्मिध्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्देवैः परस्थानविहारापेक्षया अष्टौ रज्जवः २० स्पृष्टाः । संयतासंयतः लोकस्य असंख्येयभागः, षट् चतुर्दशभागा११ वा देशोनाः ।
तत्कथम् ? संयतासंयतः स्वयम्भूरमणतिर्यग्भिरुच्चतो मारणान्तिकापेक्षया षट् रजवः स्पृष्टाः । प्रमत्तसंयताद्ययोगिकेवल्यन्तानां स्पर्शनं क्षेत्रवत् । तत्कथम् ? प्रमत्तादीनां नियतक्षेत्रत्वात् भवान्तरे नियतोत्पादस्थानत्वाच्च समचतुरस्ररज्जुप्रदेशव्याप्त्यभावात्
लोकस्यासंख्येयभागः । सयोगकेवलिना क्षेत्रवत् लोकस्यासंख्येयभागः लोकस्यासंख्येयभागा २५ वा सर्वलोको वा स्पर्शनम् । इति सामान्येन स्पर्शनमुक्तम् ।
___ अथ विशेषेण स्पर्शनमुच्यते । १२गत्यनुवादेन नरकगतौ प्रथमपृथिव्यां नारकैश्चतुर्गुणस्थानलॊकस्य असंख्येयभागः स्पृष्टः। तत्कथम् ? सर्वेषां नारकाणां नियमेन संक्षिपर्याप्तक- पञ्चेन्द्रियेषु तिर्यक्षु मनुष्येषु प्रादुर्भावः । तत्र प्रथमपृथिव्याः सन्निहितत्वेन अर्द्धरज्जु
१ षट्खं० फो० १-१० । २-माणरज्जुः आ०, द०, ब० । ३ तल्लक्षणम-क० । तल्लक्षमता० । ४-पि स्व-आ०, द०, ब० ॥ ५ कायेषु द० । ६ उत्पद्यन्ते आ०, द०, ३० । ७ चतुर्थस्थानकेषु आ०, ब० । चतुर्थस्थानेषु द०। ८ "ण हि सासणो अपुणे साहारणसुहुमगे य तेउदुगे।"
गो० क० गा० ११५ । ९-रमत्र २० । १० स्पर्शन-च० । ११ भागा दे-आ०, ब०, व०, द० । १२ षट्वं० फो० ११-५६ ।
For Private And Personal Use Only