SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ १८] प्रथमोऽध्यायः 'संयमानुवादेन सामायिकच्छेदोपस्थापनशुद्धिसंयतानां प्रमत्ताप्रमत्ताऽपूर्वकरणानिवृत्तिबादरसाम्परायाणां सामान्योक्तं क्षेत्रम् । परिहारविशुद्धिसंयतानां प्रेमत्ताप्रमत्तानां सामान्योक्तं क्षेत्रम् । सूक्ष्मसाम्परायशुद्धिसंयतानां यथाख्यातविहारशुद्धिसंयतानामुपशान्तकषायक्षीणकपायसयोगकेवल्ययोगकेवलिनां चतुर्णा सामान्योक्तं क्षेत्रम् । देशसंयतानां सामान्योक्तं क्षेत्रम्। असंयतानाञ्च मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यग्निथ्यादृष्टयसंयतसम्यग्दृष्टीनां ५ चतुणां सामान्योक्तं क्षेत्रम्। ____ दर्शनानुवादेन चक्षुर्दशनिनामादितो द्वादशगुणस्थानानां लोकरयासंख्येयभागः क्षेत्रम् । अचक्षुर्दशनि नामादितो द्वादशगुणस्थानान्तानां सामान्योक्तं क्षेत्रम् । अवधिदर्शनिनामवधिज्ञानिवत् सामान्योक्तं क्षेत्रम् । केवलदर्शनिनां केवलज्ञानिवत् सयोगानां त्रिविधम् । अयोगानां लोकस्यासंख्येयभाग इत्यर्थः । ___लेश्यानुवादेन कृष्णनीलकापोतलेश्यानामादितश्चतुर्गुणस्थानानां सामान्योक्तं क्षेत्रम् । तेजःपद्मलेश्यानामादितः षड्गुणस्थानानां लोकस्यासंख्येयभागः क्षेत्रम् । शुक्ललेश्यानामादितो द्वादशगुणस्थानानां लोकस्यासंख्येयभागःक्षेत्रम् । सयोगकेवलिनामलेश्यानां सामान्योक्तं क्षेत्रम् । "भव्यानुवादेन भव्यानां चतुर्दशगुणस्थानानां सामान्योक्तं क्षेत्रम् । अभव्यानां सर्वलोकः क्षेत्रम्। सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टीनां चतुर्थगुणस्थानादारभ्य अयोगफेवलिगुणस्थानान्तेषु सामान्योक्तं क्षेत्रम् । वेदकसम्यग्दृष्टीनां चतुर्थपञ्चमषष्ठसप्तमगुणस्थानेषु सामान्योक्तं क्षेत्रम् । औपशमिकसम्यग्दृष्टीनां चतुर्थगुणस्थानादारभ्य एकादशगुणस्थानं यावत् सामान्योक्तं क्षेत्रम् । सासादनसम्यग्दृष्टीनां मिश्राणां मिथ्यादृष्टीनाश्च सामान्योक्तं क्षेत्रम्। १°संश्यनुवादेन संज्ञिनां चक्षुर्दर्शनिवत् आदितो द्वादशान्तेषु गुणस्थानेषु लोकस्या- २० संख्येयभागः क्षेत्रमित्यर्थः । असंज्ञिनां सर्वलोकः क्षेत्रम् । ये न संज्ञिनो नाप्यसंज्ञिनस्तेषां सामान्योक्तं क्षेत्रम् । ११आहारानुवादेन आदितो द्वादशगुणस्थानेषु सामान्योक्तं क्षेत्रम् । सयोगकेवलिनां लोकस्यासंख्येयभागः क्षेत्रम् , समुद्घातरहितत्वादित्यर्थः । अनाहारकाणां मिथ्यादृष्टिसासादनसम्यग्दृष्टयसंयतसम्यग्दृष्टययोगकेवलिनां सामान्योक्त क्षेत्रम् । सयोगकेवलिनां लोक- २ स्यासंख्येयभागः सर्वलोको वा असमुद्घातसमुद्घातापेक्षया सिद्धम् । १२अथ स्पर्शनं कथ्यते । सामान्यविशेषभेदात् तत् द्विप्रकारम् । तत्र तावत् १ षट्खं० खे०५८-६६ । २ प्रमचानां सा-ब० । प्रमत्तानां च सा-व० । अप्रमत्तानां स!-आ० । ३ षट्खं खे० ६७-७१ । ४ षट्खं० खे० ७२-७६ । ५षट्खं० खे० ७७-७८ । ६ षट्खं० खे० ७९-८५ । ७ चतुर्गुणस्थाना-आ०, ब० । ८ सयोग-आ०, ब० ॥९-नां सा-आ०, द०, ब० । १० षट्खं० खे० ८६-८७ । ११ षट्खं० खे० ८८-९२ । १२ अथ तत्स्य-द०, आ०, ब० । १३ द्विप्रकार: ता० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy