SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ वस्वार्थवृत्ती [१२८ कोऽर्थः १ मिथ्यादृष्टीनां सर्वलोकः । सासादनादीनां संयतासंयतान्तानां लोकस्यासंख्येय. भागः। मनुष्यगतौ मनुष्याणां सयोगकेवलिवर्जानां सर्वगुणस्थानानां लोकस्यासंख्येय. भागः। सयोगकेवलिनां तु सामान्योक्त क्षेत्रमसंख्येयभागोऽसंख्येया भागा वा सर्वलोको वा इत्यर्थः । देवगतौ देवानां चतुर्पु गुणस्थानेषु सर्वेषां लोकस्यासंख्येयभागः। . ५ इन्द्रियानुवादेन एकेन्द्रियाणां सर्वत्र संभवात् सर्वो लोकः क्षेत्रम् । विकलेन्द्रियाणां लोकस्यासंख्येयभागः क्षेत्रम् , देवनारकमनुष्ावत् तेषां नियसोत्पादस्थानत्वात् । विकला हि अर्धतृतीये द्वीपे लवणोदकालोदसमुद्रद्वये स्वयम्भूरमणद्वीपार्धपरभागे स्वयम्भूरमणसमुद्रे चोत्पद्यन्ते न पुनरमंख्यद्वीपसमुद्रेषु न च नरकस्वर्गभोगभूम्यादिषु । पञ्चेन्द्रि गणां मनुष्यवन्नि रतं क्षेत्रम् । तथाहि "प्राङ्भानुषोत्तरान्मनुष्याः" [त० सू० ३।४५ ] इति १० वक्ष्यमाणसूत्रब छन यथा मनुष्याणां लोकस्यासंख्येयभागः क्षेत्रं नियतं वर्तते तथा पञ्चे न्द्रियाणां नरके तिर्यग्लोके देवलोके च त्रसनाडीमध्ये नियतेष्वेव स्थानेषु उत्पादो वर्तते तेन लोकस्यासंख्येयभागः क्षेत्रं पञ्चेन्द्रियाणां दातव्यम् । ___कायानुवादेन पृथिव्यप्तेजोवायुवनस्पतिकायानां सर्वलोकः क्षेत्रम् । त्रसकायिकानां पञ्चेन्द्रियवल्लोकस्यासंख्येयभागः क्षेत्रम् । १५ योगानुवादेन वाङ्मनसयोगिनामादितः सयोगकेवल्यन्तानां लोकस्यासंख्येयभागः क्षेत्रम् । काययोगानामादितः त्रयोदशगुणस्थानानामयोगकेवलिनाञ्च सामान्योक्त क्षेत्रम् । मिथ्यादृष्टीनां सर्वलोकः। भासादनादीनामयोगिकेवल्यन्तानां लोकस्यासंख्येयभागः । सयोगकेवलिना लोकस्यासंख्येयभागोऽसंख्येया भागा "वा सर्वलोको वा इत्यर्थः । "वेदानुवादेन स्त्रीपुंसवेदानां मिथ्यादृष्टयादिनवमगुणस्थानान्तानां लोकस्यासंख्येय२० भागः क्षेत्रम् । नपुंसकवेदानां मिथ्यादृष्टयादिनवमगुणस्थानान्तानामवेदानाञ्च सामान्योक्तं क्षेत्रम् । ___ "कषायानुवादेन क्रोधमानमायाकषायाणां" लोभकषायाणाञ्च मिथ्यादृष्टयादिनवमगुणस्थानान्तानां दशमगुणस्थानान्तानां व्यपगतकषायाणाञ्च सामान्योक्तं क्षेत्रम् । - ज्ञानानुवादेन कुमतिकुश्रुत्यज्ञानिनां मियादृष्टिसासादनसम्यग्दृष्टीनां सामान्योक्तं २५ क्षेत्रम् । "कदवध्यज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां लोकस्यासंख्येयभागः क्षेत्रम् । मतिश्रुतावधिज्ञानिनामसंयतसम्यग्दृष्टयादीनां मनःपर्ययज्ञानिनां षष्ठगुणस्थानादिद्वादशगुणस्थानान्तानां केवलज्ञानिनां सयोगानामयोगानाञ्च सामान्योक्तं क्षेत्रम् । १ सयतानां द०, आ०, ब०, व० । २-संख्येयभा-आ०, ब०, २०, २० । ३ चतुर्गुणभा०, ब०, द०। ४ षट्खं० खे० १७-२३ । १ सर्वस-६०, भा०, २० । स्थानकेषु ता०, 4. । षट्खं० खे० २२-२८ । ८ षट्खं० खे० २९-४२। -संख्येयभा--आं०, ब०, ६०। १० वा सर्वलोका वा इत्यर्थः ३० । ११ षट्खं० खे० ४३-४६ । १२ षटर्ख० खे० ४७-५० । ६३-मायानां आo; द०, २० । १४ पटख० खे० ५३-५७। १५ कुदवघ्य-80०, ३०, ३० । कुवध्य-द०।१६-नां च षष्टमगुणस्थानादीनां च षट गुणस्थानानि का .. . For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy