________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
१८]
प्रथमोऽध्यायः - संज्ञानुवादेन संक्षिषु मिथ्यादृष्टयादयो द्वादशगुणस्शनाः चक्षुर्दर्शनिवत् । तथाहि-मिध्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । अन्ये एकादश सामान्योकसंख्याः । असंज्ञिनो मियादृष्टयोऽनन्तानन्ताः । न संज्ञिनो नाप्यसंज्ञिनः ये ते सामान्योक्तसंख्याः।
आहारानुवादेने आहारकेषु आदितस्त्रयोदशगुणस्थानाः सामान्योक्तसंख्याः । आ-५ नाहारकेषु मिथ्यादृष्टयः सासादनसम्यग्दृष्टयोऽसंयतसम्यग्दृष्टयश्च सामान्योक्तसंख्याः । मिनास्तु अनाहारका न भवन्ति मृतेरभावात् । तथा चोक्तम्
• "मिश्रे क्षीणकषाये च मरणं नास्ति देहिनाम् ।
शेषेष्वेकादशस्वस्ति मृतिरित्यूचिरे विदः ॥" [ ] अनाहारकेषु सयोग केवलिनः संख्येयाः, यतः केषुचित् सयोगकेवलिषु समुद्घातो १० वर्तते केषुचित् समुद्घातो नास्ति । ये समुद्घाताः ते अनाहारकाः। अनाहारकेषु अयोगकेवलिनः सामान्योक्तसंख्याः । इति संख्यानुयोगः समाप्तः। ।
अथेदानी क्षेत्रप्ररूपणा कथ्यते । सामान्यविशेषभेदात् क्षेत्रं द्विप्रकारम् । तंत्र तावत् सामान्येने मिथ्यादृष्टीनां क्षेत्रं सर्वलोकः । सासादनसम्यग्दृष्टीनां संन्यग्मिथ्याहष्टीनामसंयतसम्यग्दृष्टीनां संयताऽसंयतानां प्रमत्तसंयतानामप्रमत्तसंयतानामपूर्वकर- १५ णानामनिवृत्तिबादरसाम्परायाणां सूक्ष्मसाम्परायाणामुपशान्तकषायाणां क्षीणकषायाणामयोगकेवलिना क्षेत्रं लोकस्यासंख्येयभागः । सयोगकेवलिना लोकस्यासंख्येयभागः लोकस्यासंख्येयभागा वा सर्वलोको वा । स तु लोकस्याऽसंख्येयभागो दण्डकपाटापेक्षया ज्ञातव्यम् । तत्कथम् ? दण्डसमुद्भातं कायोत्सर्गेण "स्थितश्चेत् द्वादशाङ्गलप्रमाणसमवृत्तं मूलशरीरप्रमाणसमवृत्तं वा । उपविष्टश्चेत् , शरीरत्रिगुणवाहुल्यं वायूनलोकोदयं वा प्रथ- २० मसमये करोति । कपाटसमुद्घातं धनुःप्रमाणबाहुल्योदयं" पूर्वाभिमुखश्चोत् दक्षिणोत्तरतः करोति । उत्तराभिमुखश्चोत् पूर्वापरत आत्मप्रसर्पण द्वितीयसमये करोति। एष विचार: संस्कृतमहापुराणपञ्जिकायामस्ति । प्रतरावस्थापेक्षया असंख्येया भागा ज्ञातव्याः । प्रतरावस्थायां सयोगकेवली वातवलयत्रयादगेव आत्मप्रदेशैर्निरन्तरं लोकं व्याप्नोति । लोकपूरणावस्थायां वातवलयत्रयमपि व्याप्नोति । तेन सर्वलोकः क्षेत्रम् ।
२५ - विशेषेण तु गत्यनुवादेनं नरकगतौ नारकाणां चतुर्पु गुणस्थानेषु सर्वासु पृथिवीषु लोकस्यासंख्येयभागः । तिर्यगतौ तिरश्चामादितः पन्चगुणस्थानानां सामान्योक्तं क्षेत्रम्"।
पसं० २० १८५-१८६ । २ एते मा०, ब०, ब०, द० । ३ षष्ट्खं० द्र० १९०-१९२ । ४ तथाहि चोक्तम् मा०, ब०, ६. ५ तत्र सा-आ०, ब०, द०। ६ षटखं० खे० ३-४।. 'सम्यग्मिथ्यादृष्टीनाम्' नास्ति ता० । ८-मयोगिके-ब०, ता० । १ द्रष्टव्यम्-षट्खं० ५० टी० खे. पृ०१८ । १० स्थितश्चेति द्वा-आ०, २०, २० । ११-दयः पू-भा०, ब०, २० । १२ द्रष्टव्यम्-पटस. प. टी. से. पृ० ४९-५६ । १५ षटखं० खे०.५-१६ । १४ क्षेत्रम् ता. व. पुस्तकयोः नास्ति ।
For Private And Personal Use Only