________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८]
प्रथमोऽध्यायः लेश्यानुवादेनं कृष्णनीलंकापोतलेश्यासु मिध्यादृष्ट्यादीनि चत्वारि गुणस्थानानि भवन्ति । तेजःपालेश्योरादितः सप्त गुणस्थानानि । शुक्ललेश्यायामादितस्त्रयोदश गुण. स्थानानि सन्ति । चतुर्दशं गुणस्थानमलेश्यम् ।
भव्यानुवादेनं भव्येषु चतुर्दशापि गुणस्थानानि भवन्ति । अभव्येषु प्रथममेव गुणस्थानं सत्।
सम्यक्त्वानुवादेने क्षायिकसम्यक्त्वे असंयतसद्दृष्ट्यादीनि एकादश गुणस्थानानि भवन्ति । वेदकसम्क्त्वे चतुर्थादीनि चत्वारि । औपशमिकसम्यक्त्वे चतुर्थादीनि अष्ट गुणस्थानानि सन्ति । सांसादनसम्यग्दृष्टौ सासादनगुणस्थानमेकमेव । सम्यग्मिथ्यादृष्टौ सम्यग्मियादृष्टिगुणस्थानमेकमेव । मिथ्यादृष्टौ मिथ्यादृष्टिगुणस्थानमेकमेव ।
संश्यनुवादेनं संक्षिषु आदितः द्वादश गुणस्थानानि सन्ति । असंज्ञिषु प्रथममेव १० गुणस्थानं सत् । अन्त्यगुणस्थानद्वयं संज्यसंज्ञिव्यपदेशरहितम् ।
. आहारानुवादेन आहारकेषु आदितः त्रयोदश गुणस्थानानि सन्ति । अनाहारकेषु विग्रहगतिषु मिथ्यादृष्टि-सासादनसदृष्टि-असंयतसद्दृष्टिगुणस्थानत्रयमस्ति । समुद्धातावसरे सयोगकेवली अयोगकेवली सिद्धाश्च गुणस्थानरहिताः । इति सत्प्ररूपणा समाप्ता ।
अथ संख्यानरूपणा प्रारभ्यते । संख्या द्विप्रकारा-सामान्यविशेषभेदात् । सामा- १५ न्येन मिथ्यादृष्टयो" जीवा असन्तानन्तसंख्याः । सासादनसम्यग्दृष्टयः सम्यग्मिध्यादृष्टयः असंयतसम्यग्दृष्टयो देश संयताश्च पल्योपमासंख्येयभागसंख्याः । तथाहि-"द्वितीये गुणस्थाने द्वापश्चाशत्कोटयः ५२००००००० । “तृतीये गुणस्थाने चतुरधिकशतकोटयः १०४०००००००। चतुर्थगुणस्थाने सप्तशतकोटयः ७००००००००० । पञ्चमगुणस्थाने त्रयोदशकोटयः १३००००००० । उक्तञ्च'
२० "तेरहकोडी देसे बावण्णा सासणा मुणेयव्वा ।
मिस्सम्मि य ते दुणा असंजया सत्तमयकोडी ॥" [ ] प्रमत्तसंयताः कोटिपृथक्त्वसंख्याः । पृथक्त्वमिति कोऽर्यः ? आगमभाषया
षटखं० १९३६-११० । २-लकपो-आ०, ब०, द०। ३-नि भवन्ति शु-व०॥ ४ षट्वं० १११४२-१४३ । ५ षट्खं० ११४५-१५। ६ सासादनस्य सभ्य-ता० । ७ षर्ख० 1१७३-७१। “ प्रथममेकमेव आ०, ब० । ६ संज्ञासंशि-आ०, ब०, व० । १० षट्खं० १।१७६१७७।।। पटसं. २०२।१२ षट्स० ० ६ / १३ द्वितीयगु-श्रा०, ब०, द० । १४ तृतीयगुम०, ब०, . "वुत्तं च तेरहकोडी देसे बावणं .. ॥ अहवा, तेरहकोडी देसे पण्णास सासणे मुणेयन्वा । मिस्से वि थ तदुगुणा असंजदे सत्तकोडिसया ॥"-३० टी० ६० पृ० २५२ । त्रयोदशकोटयो देश द्वापञ्चाशत् सासादना मन्तव्याः। मिश्रे च ते द्विगुणा असंयताः सप्तशतकोटयः ॥ १६-य त दुHO, ब, ज०१०। १७ गो० जी० गा० ६४२ । १८ षट्खं० द्र०७ । स० सि०-१८ । गो, जी. गा० ६२५ ॥
For Private And Personal Use Only