SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्यवृत्ती [१२८ योगानुवादेनं त्रिषु योगेषु सयोगकेवल्यन्तानि त्रयोदश गुणस्थानानि थ्रियन्ते । तत्पश्चादयोगकेवली। वेदानुवादेनं त्रयाणां वेदानाम् अनिवृत्तिबादरा-तानि नव विद्यन्ते । वेदरहितेषु अनिवृत्तिबादराययोगकेवल्यन्तानि षट् गुणस्थानानि दातव्यानि । ननु एकस्यैव अनि५ वृत्तिबादरगुणस्थानस्य सवेदत्वमवेदत्वञ्च कथमिति चेत् ? भण्यते-अनिवृत्तिगुणस्थानं पभागीक्रियते । तत्र प्रथमभागत्रये वेदानामनिवृत्तित्वात् सवेदत्वम् । अन्यत्र वेदानां निवृत्तित्वादवेदत्वम्। कषायानुवादेन क्रोधमानमायासु अनिवृत्तिबादरगुणस्थानान्तानि नव दातव्यानि । लोभकषाये मिथ्यादृष्टयादीनि दश । उपशान्तकषायक्षीणकषायसयोगकेवल्ययोगके१० बलिचतुष्टये अकषायाः। ... ज्ञानानुवादेनं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु आद्यं गुणस्थानद्वयमस्ति । सम्यम्मिथ्यादृष्टेः ज्ञानमज्ञानञ्च केवलं न सम्भवति तस्याज्ञानत्रयाधारत्वात् । उक्तञ्च "मिस्से णाणत्तयं मिस्सं अण्णाणत्तयेण" [ ] इति । .तेन ज्ञानानुवादे मिश्रस्यानभिधानम् , तस्याज्ञानप्ररूपणायामेवाभिधानं ज्ञानं १५ ज्ञातव्यम् , ज्ञानस्य यथावस्थितार्थविषयत्वाभावात् । मतिश्रुतावधिज्ञानेषु क्षीणकषाया न्तानि असंयतसम्यग्दृष्टयादीनि नव वर्तन्ते । मनःपर्ययज्ञाने प्रमत्तसंयतादीनि क्षीणकषायान्तानि सप्त गुणस्थानानि सन्ति । "केवलज्ञाने सयोगोऽयोगश्च गुणस्थानद्वयं वर्तते । संयमानुवादेर्न सामायिकच्छेदोपस्थानशुद्धिसंयमद्वये प्रमत्तादोनि चत्वारि गुणस्थानानि । “परिहारविशुद्धिसंयमे प्रमत्ताप्रमत्तद्वयम् । सूक्ष्मसाम्परायशुद्धिसंयमे सूक्ष्मसा२० म्परायगुणस्थानमेकमेव । यथाख्यातविहारशुद्धिसंयमे उपशान्तकषायादा नि चत्वारि गुणस्थानानि भवन्ति । देशसंयमे देशसंयमगुणस्थानमेकमेव । असंयता आदिगुणस्थानचतुष्टये भवन्ति । - दर्शनानुवादेन चक्षुरचक्षुदर्शनयोः आदितो द्वादश गुणस्थानानि भवन्ति । अवधिदर्शने असंयतसदृष्ट्यादीनि गुणस्थानानि नव भवन्ति । केवलदर्शने "सयोगायो२५ गद्वयं भवति । १ षट्खं० ११४७-१०० । २ षट् खं० १११०१-१०३ । ३ षट्खं० १११०४ । ४ षरखं. ११११-११४ । ५-लिनश्च ये ते क -मा०, ब०, द०। ६ षट्खं० ११११५-२२ । ७ आद्यगुणता०। ८ सम्मामिच्छाठिठाणे तिणि वि गाणाणि अण्णाणेण मिस्साणि । आभिणिबोहियणाणं मदिअण्णाणेण मिस्सियं, सुदणाणं सुदअण्णाणेण मिस्सियं, ओहिणाणं विभंगणाणेण मिस्सियं, तिणि विणाणाणि अण्णाणण मिस्साणि वा ॥"-पर्ख० १।३१९ । ६ सम्यग्मिथ्यादृष्टीनस्य । १० "केवलंणाणी तिसु ठाणेसु सजोगकेवली अजोगकेवली सिद्धा चेदि ।"-पर्ख० १११२२ । ११ षट्खं०१।१२४-१२६ । १२ परिहारशुद्धि-ता० । १३ षटखं० १।१३२-१३४ । १४-नि नव गुणस्थानानि भव-मा०, ब०, द०। १५ "केवलदंसणी तिसु ढाणेसु सजोगिकेवलो अजोगिकेवली सिद्धां चेदि ।"-पट्खं० ११३५ । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy