________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८]
সখীগ্রাম प्रमाणनयनिर्देशादिभिश्च सम्यग्दर्शनादीनां जीवादीनान्चाधिगमो भवति । किन्तु सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च अष्टभिरनुयोगैश्वाधिगमो भवति ।
ननु निर्देशात् सत् सिद्धम् , विधानात संख्यापि ज्ञायते, अधिकरणात् क्षेत्रस्पर्शनद्वयस्वीकारो भविष्यति, स्थितिग्रहणात् कालो विज्ञायते, नामादिसगृहीतो भावश्च वर्तते, पुनः सदादीनां ग्रहणं किमर्थम् ? साधूक्तं भवता । शिष्याभिप्रायवशादेषां ग्रहणम् । केचि-५ च्छिष्याः संक्षेपरुचयः, केचिद्विस्तरप्रियाः, अन्ये मध्यमत्वसन्तोषिणः। सत्पुरुषाणां तूद्यमः सर्वजीवोपकारार्थ इति कारणादधिगमस्याभ्युपायः कृतः । अन्यथा प्रमाणनयै-' रेवाधिगमो भवति, अपरग्रहणमनर्थकं भवति ।
तत्र तावज्जीवद्रव्यमुद्दिश्य सदाद्यधिकारो विधीयते । ते तु जीवाश्चतुर्दशंसु गुणस्थानेषु तिष्ठन्ति । कानि तानीति चेत् ? उच्यते-मिथ्यादृष्टिः ॥१॥ सासादनसम्य- १० ग्दृष्टिः ।। २ ।। सम्पगमिथ्यादृष्टिः ॥३॥ असंयतसम्यग्दृष्टिः ॥४॥ देशसंयतः ॥ ५॥ प्रमत्तसंयतः ॥ ६॥ अप्रमत्तसंयतः॥७॥ अपूर्वकरणगुणस्थाने उपशमकः क्षपकः ॥ ८॥ अनिवृत्तिबादरसाम्परायगुणस्थाने उपशमकः क्षपकः ॥९॥ सूक्ष्मसाम्परायगुणस्थाने उपशमकः क्षपकः ॥ १० ॥ उपशान्तकषायवीतरागछद्मस्थः ॥ ११ ॥ क्षीणकषायवीतरागछद्मस्थः ।। १२ । सयोगकेवली ।। १३ ।। अयोगकेवली चेति ॥ १४ ॥ अमीषां जीव- १५ समासानां प्ररूपणार्थ चतुर्दशमार्गणास्थानानि ज्ञातव्यानि । तथा हि-गतयः ॥१॥ इन्द्रियाणि ॥ २॥ कायाः ॥ ३॥ योगाः ॥ ४॥ वेदाः॥५॥ कषायाः ॥ ६॥ ज्ञानानि ॥ ७॥ संयमाः ।। ८॥ दर्शनानि ॥ ९॥ लेश्याः ॥ १०॥ भव्याः ॥ ११॥ सम्यक्त्वानि ।।१२।। संज्ञाः।। १३ ।। आहारकाश्चेति ॥१४॥
गुणस्थानेषु सत्प्ररूपणा द्विप्रकारा सामान्यविशेषभेदात् । तत्र सामान्येन अस्ति २० मिथ्याष्टिः, अस्ति सासादनसम्यग्दृष्टिः, अस्ति सम्यग्मिथ्यादृष्टिः, अस्ति असंयतसम्यग्दष्टिः, अस्ति संयतासंयतः, अस्ति प्रमत्तसंयत इत्यादि चतुर्दशसु गुणस्थानेषु वक्तव्यम् ।
विशेषेण गत्यनुवादेनं नरकगतौ सप्तस्वपि पृथिवीषु मिथ्यादृष्टयादिचत्वारि गुणस्थानानि वर्तन्ते । तिर्यग्गतौ देशसंयत्तान्तानि पञ्च गुणस्थानानि सन्ति । मनुष्यगतौ चतुर्दशापि जाप्रति । देवगतौ आधानि चत्वारि विद्यन्ते ।
इन्द्रियानुवादेन एकद्वित्रिचतुरिन्द्रियेषु प्रथमं गुणस्थानं ध्रियते । पञ्चेन्द्रियेषु चतुर्दशाप्यासते।
कायानुवादेन' पृथिव्यादिपञ्चकायेषु प्रथमं गुणस्थानं जागर्ति । त्रसकायेषु चतुर्दशापि विद्यन्ते ।
-नयैरधि-आ०, २०, द० । २-दशगुण-आ०, ब०, ब०, द. १३ उच्यन्ते मा०, २०,२० । .४-ली अमी-आ०, ब०, द.। ५ षट्खण्डा० ११२-१। ६-कश्चेति भा०, २०, २०। ७ षट्स०
११८-२२ । ८ चतुर्दश गुण-आ०, ब०, व०, द०। ९ षट्खं० ११२५-२९ । १० षटूर्ख १६, .३५० षटर्ख० १४३, ४३ ।
For Private And Personal Use Only