SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्तौः [१८ . एवं संख्येयविकल्पं सम्यग्दर्शनप्ररूपकशब्दानां संख्यातत्वात् । श्रद्धायक-श्रद्धातव्यभेदादसंख्येया अनन्ताश्च सम्यग्दर्शनस्य भेदा भवन्ति । तदपि कस्मात् ? श्रद्धायकानां भेदोऽसंख्यातानन्तमानावच्छिन्नः श्रद्धायकवृत्तित्वात् श्रद्धेयस्याप्येतदवच्छिन्नत्वम् , असंख्येयानन्तभेदस्तद्विषयत्वात् । एवं निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानविधिर्यथा ५ योजितस्तथा ज्ञाने चारित्रे च सूत्रानुसारेण योजनीयः। ... आस्रवो द्विविधः-शुभाशुभविकल्पात् । तत्र कायिक आस्रवः हिंसानृतस्तेयाब्रह्मादिषु प्रवृत्तिनिवृत्ती । वाचिकात्रवः परुषाक्रोशपिशुनपरोपघातादिषु वचस्सु प्रवृत्तिनिवृत्ती । मानस आस्रवो मिथ्याश्रुत्यभिघातासूयादिषु मनसः प्रवृत्तिनिवृत्ती । बन्धो द्विविधः-शुभाशुभभेदात् । चतुर्धा-प्रकृतिस्थित्यनुभवप्रदेशभेदात् । १० पञ्चधा-मिथ्यादर्शनाविरतिप्रमादकषाययोगभेदात् । अष्टधा-ज्ञानावरणादिभेदात् । आस्रवभेदात् संवरोऽपि तद्भेदः । “आस्रवनिरोधः संवरः" [त० सू० ९।१] इति वचनात् । निर्जरा द्विधा-यथाकालौपक्रमिकभेदात् । अष्टधा-ज्ञानावरणादिभेदात् । ज्ञानं सामान्यादेकम् । द्विधा-प्रत्यक्षपरोक्षतः । पञ्चधा-मत्यादिभेदात् । १५ चारित्रं सामान्यादेकम् । द्विधा-बाह्याभ्यन्तरनिवृत्तिभेदात् । त्रिधा-उप (औप) शमिक-क्षायिक-मिश्रभेदात् । पञ्चधा-सामायिक छेदोपस्थापना-परिहारविशुद्धि-सूक्ष्मसाम्पराय-यथाख्यातभेदात् । इत्यादिविधानं वेदितव्यम् । ___अथ जीवादीनामधिगमो यथा प्रमाणनयैर्भवति तथा निर्देशादिभिः षड्भिश्च भवति तथान्यैरपि कैश्चिदुपायैरधिगमो भवति न वा ? इति प्रश्ने सूत्रमिदमुच्यते२० सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ ८॥ 'सत्' शब्दो यद्यप्यनेकार्थो वर्तते, "साध्वर्चितप्रशस्तेषु सत्येऽस्तित्वे च सन्मतः।" [ ] इति वचनात् , तथाप्यत्रास्तित्वे गृह्यते नान्यत्र । सङ्घयाशब्देन भेदगणना वेदितव्या। क्षेत्रं निवास उच्यते । स तु वर्तमानकालविषयः । क्षेत्रमेव त्रिकालगोचर स्प र्शनमुच्यते । मुख्य-व्यावहारिकविकल्पात् कालो द्विप्रकारः । विरहकालोऽन्तर कथ्यते । २५ औपशमिकादिलक्षणो भावः । परस्परापेक्षया विशेषपरिज्ञानमल्पबहुत्वम् । सञ्च संख्या च क्षेत्रं च स्पर्शनं च कालश्चान्तरं च भावश्चाल्पबहुत्वं च सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वानि, तैस्तथोक्तैः । चकारः परस्परं समुचये वर्तते । तेनायमर्थः-न केवल .. -त्वात् एवं आ०, ब०, द० । २-विधानतः वि-आ०, ब०, ३० । ३ हिंसास्तेया-ता०, १०। ४-दात् आस्रव-आ०, २०, २० । ५ द्विविधा आ०, ब०, २०। ६-कालोपक्रमिकानो. .:पक्रमिकमे-आ०, 40, द० । ७ "संतपरूवणा दव्वपमाणाणुगमो खेत्ताणुगमो फोसणाणुगमो कालाणु गमो अंतराणुगमो भावाणुगमो अप्पाबहुगाणुगमो चेदि ।”-पखंडा० ।। ८ "सत्ये साधौ विद्य. माने प्रशस्तेऽभ्यर्चिते च सत् ।" इत्यमरः । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy