SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५] प्रथमोऽध्यायः स्थितिरन्तर्मुहूर्तः। कायास्रवस्य च जघन्येन एकसमयः, उत्कर्षणानन्तकालः । तत्कथमनन्तकालः स्थितेः ? एकस्मिन्नेव काये मृत्वा मृत्वा स एव जीव उत्पद्यते, अन्ये अन्ये वा । बन्धस्थितिवेदनीयस्य जघन्या द्वादश मुहूर्ताः । नामगोत्रयोरष्टौ मुहूर्ताः । शेषाणामन्तर्मुहूर्ता जघन्या स्थितिः । ज्ञानदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टा स्थितिः त्रिशत्सागरोपमकोटीकोट्यः । मोहनीयस्योत्कृष्टा स्थितिः सप्ततिसागरोपमकोटोकोट्यः । नामगोत्रयो- ५ रुत्कृष्टा स्थितिविंशतिसागरोपमकोटीकोट्यः । आयुष्कर्मण उत्कृष्टा स्थितिः त्रयस्त्रिंशस्सागरा एव । संवरस्य जघन्या स्थितिरन्तर्मुहूर्तः । उत्कृष्टा पूर्वकोटी देशोना । निर्जराया जघन्या स्थितिरेकसमयः, उत्कृष्टा अन्तर्मुहूर्तः । मोक्षस्य स्थितिः साद्यनन्ता । विधानम्-'सम्यग्दर्शनं कतिभेदम् ?' इति केनचित् पृष्टे सामान्येन सम्पग्दर्शनमेकमेव । विशेषेण निसर्गजाधिगमजविकल्पात् 'द्विविधम् । उपशम-वेदक-क्षायिकभेदात् १० त्रिविधम् । दशविधञ्च । तदुक्तम् "आज्ञामार्गसमुद्भवमुपदेशात् सूत्रबीजसंक्षेपात् । 'विस्तारार्थाभ्यां भवमवपरमावादि गाढं च ॥१॥" [आत्मानु० श्लो० ११] 'अस्या आर्याया विवरणार्थ वृत्तत्रयमाह । तथा हि "आज्ञासम्यक्त्वमुक्तं यदुत विरुचितं वीतरागावयैव त्यक्तग्रन्थप्रपञ्चं शिवममृतपथं श्रद्दधन्मोहशान्तः । मार्गश्रद्धानमाहुः पुरुषवरपुराणोपदेशोपजाता या संज्ञा नागमाब्धिप्रसृतिभिरुपदेशादिरादेशि दृष्टिः ॥ १ ॥ आकर्ष्याचारसूत्रं मुनिचरणविधेः सूचनं श्रद्दधानः सूक्तासौ सूत्रदृष्टि(रधिगमगतेरर्थसार्थस्य बीजैः । कैश्चिजातोपलब्धैरसमसमवशाद् बीजदृष्टिः पदार्थान् संक्षेपेणैव बुद्ध्वा रुचिमुपगतवान् साधुसंक्षेपदृष्टिः ॥ २ ॥ यः श्रुत्वा द्वादशाङ्गी कृतरुचिरिह तं विद्धि विस्तारदृष्टिं संजातात्कृतश्चित्प्रवचनवचनान्यन्तरेणार्थदृष्टिः । दृष्टिः साङ्गाङ्गबाह्यप्रवचनमवगायोस्थिता याऽवगाढा कैवल्यालोकिताथै रुचिरिह परमावादिगादेति रूढा ।। ३॥" [आत्मानु० श्लो० १२-१४] १-रन्तर्मुहूर्ताः द०, भा०, ब० । २ कथं तत्कालस्थितिः आ०, 46। कथमनन्तकालस्थितिः ६०, ३० । ३ अन्यो वा २०, आ०, ब० । ४ आयुकर्मणः ता० । ५ द्विधम् भा०, ब० । विस्तरा । -10 | वाक्यमिदं ता० प्रतौ नास्ति । ८-तोपलब्धेर ता.। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy