SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्वार्थवृत्ती नास्ति, जातिस्मरण-धर्मश्रवण-जिनमहिमदर्शनानि च वर्तन्ते । मवप्रैवेयकदेवानां केषाचिज्जातिस्मरणम् , अपरेषां धर्मश्रवणम् । अवेयकवासिनामहमिन्द्रत्वात् कथं धर्मश्रवणमिति चेत् ? उच्यते-तत्र कश्चित् सम्यग्दृष्टिः परिपाटीं करोति, शास्त्रगुणनिकां करोति, तामाकान्यः कोऽपि तत्र स्थित एव सम्यग्दर्शनं गृह्णाति । अथवा, प्रमाणनयनिक्षेपास्तेषां ५ न विद्यन्ते, तत्त्वविचारस्तु लिङ्गिनामिव विद्यत इति नास्ति दोषः । अनुदिशानुत्तरविमानदेवास्तु पूर्वमेव गृहीतसम्यक्त्वास्तत्रोत्पद्यन्ते । तेन तेषां जातिस्मरणधर्मश्रवणकल्पना नास्ति। ____ अधिकरणं द्विप्रकारम्-अभ्य(आभ्यान्तर-बाह्यभेदात् । अ(आ)भ्यन्तरं सम्यग्दर्शनस्याधिकरणमात्मैव । बाह्यमधिकरणं सम्यग्दर्शनस्य चतुर्दशरज्ज्वायामा एकरज्जुविष्कम्भा १० लोकनाडी वेदितव्या । जीवाकाशपुगलकालधर्माधर्माणां निश्चयनयेन स्वप्रदेशा एवाधि करणम् । व्यवहारेण आकाशरहितानामाकाशमधिकरणम् । जीवस्य शरीरक्षेत्रादिरयधिकरणम् । कुट लकुटादिपुद्गलानां भूम्यादिरप्याधारः । जीवादिद्रव्यगुणपर्यायाणां ज्ञानसुखादिरूपादिरधिकरणं-घटादीनां (रूपादिघटादीनां ) जीवादिद्रव्यमेवाधिकरणम् । इत्याद्यधिकरणं वेदितव्यम् । १५ औपशमिकस्य सम्यग्दर्शनस्य उत्कृष्टा निकृष्टा च स्थितिरन्तर्मुहूर्तः । क्षायि कस्य सम्यग्दर्शनस्य स्थितिः संसारिजीवस्य जघन्यान्तर्मुहूर्तिकी (न्तमौहूर्तिकी)। उत्कृष्टा तु त्रयस्त्रिंशत्सागरोपमानि । कथम्भूतानि त्रयस्त्रिंशत्सागरोपमानि ? अन्तर्मुहूर्ताधिकाष्टवर्षहीनपूर्वकोटिद्वयसहितानि । तत्पश्चात् क्षायिकसदृष्टेः संसारो निवर्तते। तथा हि-कश्चित् कर्मभूमिजो मनुष्यः पूर्वकोट्यायुरुत्पन्नो गर्भाष्टमवर्षानन्तरमन्तर्मुहूर्तेन २० दर्शनमोहं क्षपयित्वा क्षायिकसदृष्टिभूत्वा तपो विधाय सर्वार्थसिद्धावुत्पद्य ततश्च्युत्वा पूर्वकोट्यायुरुत्पद्य कर्मक्षयं कृत्वा मोक्षं याति, भवत्रयं नातिकामति । मुक्तजीवस्य साद्यनन्ता क्षायिकसम्यग्दर्शनस्य स्थितिवेदितव्या । ___वेदकस्य जघन्या स्थितिरान्तौहूर्तिकी । वेदकस्योत्कृष्टा स्थितिः षट्षष्टिसाग रोपमानि । सा कथम् ? सौधर्मे द्वौ सागरौ, शुक्रे षोडश सागराः, शतारे अष्टादेश सागराः, २५ अष्टमवेयके त्रिंशत्सागराः, एवं षट्षष्टिसागराः। अथवा, सौधर्मे द्विरुत्पन्नस्य चत्वारः सागराः, सनत्कुमारे सप्त सागराः, ब्रह्मणि दश सागराः, लान्तवे चतुर्दश सागराः, नवमप्रैवेयके एकत्रिंशत्सागराः, एवं षट्षष्टिः। अन्त्यसागरशेषे मनुष्यायुहीनं क्रियते तेन षट्षष्टिसागराः साधिका न भवन्ति । सर्वजीवानां द्रव्यापेक्षयाऽनाद्यनन्ता स्थितिः, पर्यायापेक्षया एकसमयादिका ३० स्थितिः । वागास्त्रवस्य मानसास्त्रवस्य च जघन्येन एकसमयः, उत्कर्षेण घटिकाद्वयम् ,मध्यमा १-नि व-द०, आ०, ब० । २-न्ते तेषां भा०, द०, ब० । ३-'रधिकरणम्' इति पाठः निरर्थको भाति । ४-सम्यग्दृष्टेः आ०, ब० । ५-श्चुत्वा ता०, ब० । ६ रन्तर्मुहूर्तिकी आ०, ब०, ३०, ३० । .- स-आ०, 40, द.। 6-समयादिकस्थितिः ३०, आ०, ५०। ९ मनसासवस्य आ., 40। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy