SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७) प्रथमोऽध्यायः संयमानुवादेन सामायिकछेदोपस्थापनासंयमिनां त्रितयम् । परिहारविशुद्धिसंयमिनां वेदकं क्षायिकं च । परिहारविशुद्धिसंयतानामौपशमिकं कस्मान्न भवतीति चेत् ? मनःपर्ययपरिहारविशुद्धयौपशमिकसम्यक्त्वाहारकर्लीनां मध्येऽन्यतरसम्भवे परं त्रितयं न भवति । एकस्मिन मनःपर्यये तु मिथ्यात्वपूर्वकौपशमिकप्रतिषेधो द्रष्टव्यो न वेदकपूर्वकस्य । उक्तं च "मणपंज्जवपरिहारा उवसमसम्मत्त आहारया दोष्णि । एदेसि य एगदरे सेसाणं संभवो णत्थि ॥१॥" [गो० जी० गा० ७२८ ] आहारया दोणि आहारकाहारकमिश्रौ सूक्ष्मसाम्परायिकयथाख्यातसंयमिनामौपशमिकं क्षायिकं च वर्तते । संयतासंयतानामसंयत्तानां च त्रितयं वर्तते ॥ ८॥ १० दर्शनानुवादेन चक्षुरचक्षुरवधिदर्शनिनां सदृष्टित्रयमपि स्यात् । केवलिनां क्षायिकमेव ॥९॥ लेश्यानुवादेन षड्लेश्यानां सम्यक्त्वत्रयमपि स्यात् । निर्लेश्यानां क्षायिकमेव ।। १० ।। भव्यानुवादेन भव्यानां त्रयमपि । अभव्यानामेकमपि नास्ति ।। ११॥ १५ सम्यक्त्वानुवादेन यत्र यत्सम्यक्त्वं तत्र तदेव ॥ १२ ।। संज्ञानुवादेन संज्ञिनां सम्यग्दर्शनत्रयमपि असंज्ञिनामेकमपि नास्ति । ये तु न संज्ञिनो नाप्यसंज्ञिनस्तेषां क्षायिकमेव ॥ १३ ॥ ____ आहारानुवादेन आहारकाणां सम्यग्दर्शनत्रयमपि । छद्मस्थानाम नाहारकाणां त्रितयमपि सम्यग्दर्शनम् । समुद्धातप्राप्तानां केवलिना क्षायिकमेव ॥ १४॥ ___ सम्यग्दर्शनस्य साधनं द्विप्रकारम्-आभ्यन्तर-बाह्यभेदात् । तत्राभ्यन्तरं सम्यग्दर्शनस्य साधनं दर्शनमोहस्योपशमः, क्षयोपशमः, क्षयो वा। बाह्यं सम्यग्दर्शनस्य साधनं नारकाणां प्रथमद्वितीयतृतीयनरकभूमिषु केषाब्चिज्जातिस्मरणं केषाचिद्धर्मश्रवणं केषाब्चिद्वेदनानुभवनम् । चतुर्थ्यादिसप्तमीपर्यन्तासु नरकभूमिषु नारकाणां जातिस्मरणवेदनाभिभवौ सम्यग्दर्शनस्य साधनम् । तिर्यङ्मनुष्याणां २५ जातिस्मरणधर्मश्रवणजिनबिम्बदर्शनानि । देवानां सम्यग्दर्शनस्य साधनं केषाञ्चिज्जातिस्मरणम् , अन्येषां धर्मश्रवणम् , अपरेषां जिनमहिमदर्शनम् , इतरेषां देवर्द्धिदर्शनं सहस्रारपर्यन्तम् । आनतप्राणतारणाच्युतदेवानां देवर्द्धिदर्शनं सम्यग्दर्शनस्य साधन . 1-पर्याय-व० । २-हारशुद्धौ-ता०, २०, ५० । ३ एकयतौ म-व०, ता० । ४-कस्य प्रति- . घेधो दृष्टो न आ०, २०, द० ।-कस्य प्रतिषेधो द्रष्ट-व० । ५-पज्जय-व० । ६ दोणि व०, ०, ६०, 4.1 -मित्रैः द०, भा०, ब०। ८ त्रितयं च व-व०। ९-पि नि-ता०, घ०। १० क्षायिकम् मा० .111-नामाहार-मा० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy