________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्स्वार्थवृत्तौ
[११७ "दसणमोहक्खवणापहवगो कम्मभूमिर्जादो दु । मणुसो केवलिमूले णिहवगो चावि सव्वत्थ ॥"
[गो० जी० गा० ६४७] औपशमिकं क्षायोपशमिकं च सम्यग्दर्शनं पर्याप्तिकानामेव तिरश्चीनां भवति, ५ न त्वपर्याप्तिकानां तिरश्चीनाम् ।
एवं मनुष्यगतौ मनुष्याणां पर्याप्तापर्याप्तकानां क्षायिक क्षायोपशमिकं च भवति । औपशमिकं पर्याप्तकानामेव, न त्वपर्याप्तकानाम् । मानुषीणां त्रितयमपि पर्याप्तिकानामेव, न त्वपर्याप्तिकानाम् । क्षायिकं तु सम्यक्त्वं यत् मानुषीणामुक्तं तत् भाववेदापेक्षयैव, द्रव्य
स्त्रीणां तु सम्यग्दर्शनं न भवत्येव । १० देवगतौ देवानां पर्याप्तापर्याप्तकानां सम्यग्दर्शनत्रयमपि भवति | अपर्याप्तावस्थायां
देवानां कथमौपशमिकं भवति, औपशमिकयुक्तानां मरणासम्भवात् ? सत्यम् ; मिथ्यात्वपूर्वकोपशमिकयुक्तानामेव मरणासम्भवोऽस्ति, वेदकपूर्वकौपशमिकयुक्तानां तु मरणसम्भवोऽस्त्येव । कथम् ? वेदकपूर्वकोपशमयुक्ता नियमेन श्रेण्यारोहणं कुर्वन्ति, 'श्रेण्यारूढात्
(न्) चारित्रमोहोपशमेन सह मृतानपेक्ष्य अपर्याप्तावस्थायामपि देवानामौपशमिक सम्भ१५ वति । विशेषेण तु भवनवासिनां व्यन्तराणां ज्योतिष्काणां च देवानां तदेवीनां च क्षायिक
न वर्तते । सौधर्मेशानकल्पवासिनीनां च देवीनां क्षायिक सम्यग्दर्शनं नास्ति । सौधम्मैशानकल्पवासिनीनाञ्च देवीनां पर्याप्त(प्ति )कानामौपशमिकं क्षायोपशमिक च वर्तते ॥१॥
___ इन्द्रियानुवादेन पञ्चेन्द्रियसंज्ञिनां सम्यग्दर्शनत्रितयमप्यस्ति । एकेन्द्रियद्वीन्द्रिय२० त्रीन्द्रियचतुरिन्द्रियाणामेकमपि नास्ति ॥ २॥
कायानुवादेन त्रसकायिकानां त्रितयमपि भवति । स्थावराणामेकमपि नास्ति ॥३॥ योगानुवादेन त्रयाणां योगानां त्रितयमपि भवति । अयोगिनां क्षायिकमेकमेव ॥४|| वेदानुवादेन वेदत्रयस्य दृक्त्रयमपि भवति । अवेदानामौपशमिकं क्षायिक
२५
कषायानुवादेन चतुःकषायाणां त्रितयमपि विद्यते। अकषायाणामौपशमिकं क्षायिकं च ॥ ६॥
___ ज्ञानानुवादेन मतिश्रुतावधिमनःपर्ययज्ञानिनां त्रितयमपि दीयते। केवलिनां क्षायिकमेव ॥७॥
१-जादो उ आ०। २-पर्याप्तका-आ०, ब०, वर, द.। ३ वेदपूर्वकोप-ता। वेदक. पूर्वकोपशमकसंयु-द० । वेदकपूर्वकोपशमिकसंयु-ब० । ४ कुर्वन्तु ३०। ५ श्रेण्यारोहात् भा०, , ब, द०। ६-के भ-व० । ७-वासिनां देवानां पर्या-ता० ।-वासिनीनां दे-. । वासिनीना
देवानां का।
For Private And Personal Use Only