SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७] प्रथमोऽध्यायः प्रमाणाधीनो विकलादेशो नयाधीनः। स नयो द्विप्रकारः द्रव्यार्थिक-पर्यायार्थिकभेदात् । भावस्वरूपं पर्यायार्थिकनयेन ज्ञातव्यम् । नामस्थापनाद्रव्याणां त्रयाणां तत्त्वं द्रव्यार्थिकनयेन ज्ञातव्यम् । नामस्थापनाद्रव्यभावचतुष्टयं समुदितं सर्व प्रमाणेन ज्ञातव्यम् । तेन प्रमाणं सकलादेशो नयस्तु विकलादेश इति युक्तम् ।। .. अथ प्रमाणनयैरधिगता अपि जीवादयः पदार्था भूयोऽपि उपायान्तरेणाधि- ५ गम्यन्ते इत्यर्थं चेतस्यवधार्य सूत्रमिदं सूरथः प्राहुः निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥ निर्दिश्यत इति निर्देशः । निर्देशश्च स्वरूपकथनम् , स्वामित्वं च अधिपतित्वम् , साधनं चोत्पत्तिकारणम् , अधिकरणं चाधारः-अधिष्ठानमिति यावत्, स्थितिश्च कालावधारणम् , विधानं च प्रकारः, निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानानि, तेभ्यः निर्देश- १० स्वामित्वसाधनाधिकरणस्थितिविधानतः । एभ्यः षड्भ्यः अधिगमसम्यग्दर्शनमुत्पद्यते । तत्र 'सम्यग्दर्शनं किम् ?' इति केनचित् प्रश्ने कृते तं प्रति सम्यग्दर्शन स्वरूपं निरूप्यते-तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति निर्देशः । नाम स्थापना द्रव्यं भावो वा निर्देश उच्यते । 'कस्य सम्यग्दर्शनं भवति ?' इति सम्यग्दर्शनस्वामित्वप्रश्ने केनचित् कृते सति तं प्रत्युच्यते-'सामान्येन सम्यग्दर्शनस्य स्वामी जीवो भवति' इति स्वामित्वमुच्यते। .१५ विशेषेण तु चतुर्दशमार्गणानुवादेन स्वामित्वमुच्यते । तत्र गत्यनुवादेन नरकगतौ सप्तस्वपि पृथ्वीषु नारकाणां पर्याप्तकानां द्वे सम्यक्त्वे भवतः-औपशमिकं क्षायोपशमिकं च वेदनानुभवनादित्यर्थः। प्रथमपृथिव्यां पर्याप्तकानामपर्याप्तकानाञ्च क्षायिक क्षायोपशमिकञ्च सम्यक्त्वमस्ति । कथम् ? नरकगतौ पूर्व बद्धायुष्कस्य पश्चात् गृहीतक्षायिकक्षायोपशमिकसम्यक्त्वस्य अधःपृथ्वीषूत्पादाभावात् प्रथमपृथिव्यामपर्याप्तकानां २० क्षायिक क्षायोपशमिकञ्च वर्तते । ननु वेदकयुक्तस्य तिर्यमनुष्यनरकेषूत्पादाभावात् कथमपर्याप्त कानां तेषां क्षायोपशमिकमिति ? सत्यम् । क्षपणायाः प्रारम्भकेन वेदकेन युक्तस्य तत्रोत्पादे विरोधाभावात् । एवं तिरश्चामप्यपर्याप्तकानां क्षायोपशमिकत्वं ज्ञातव्यम्। तिर्यग्गतौ तिरश्चां पर्याप्तकानामौपशमिकं भवति । क्षायिक क्षायोपशमिकं पर्या- २५ तापर्याप्तकानामस्ति । तिरश्चीनां क्षायिक नास्ति । कस्मादिति चेत् ? उच्यते-कर्मभूमिजो मनुष्य एव दर्शनमोहक्षपणायाः प्रारम्भको भवति । क्षपणायाः प्रारम्भकालात पूर्व तिर्यक्षु बद्घायुष्कोऽपि उत्कृष्टभोगभूमिजतिर्यङ्मनुष्येष्वेवोत्पद्यते न तिर्यकत्रीषु । तदुक्तम् 1 -कारो भवति पर्यायार्थिकद्रव्यार्थिकभेदात् आ०, ब०, द० ।-कारो भवति द्रव्या-ब० । २ "णामं ठवणा दविए ति एस दवठियस्स निक्खेवो । भावों उ पज्जवष्ठिअस्स परूवणा एस परमत्थो ॥"-सन्मति० ।। स० सि. १।६। जयध० पृ० २६० । ३ कालावधानम् ता । ४ तं प्रति सम्यग्दर्शनमि-आ०, ५०, द० । ५-ग चतु-३०, ८०। ६-फ्त्वमिति आ०, 40, द.। ७ पूर्वबद्धा-प० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy