________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्वार्थवृचौः कोऽर्थः १ कर्म नोकर्मभेदः । तत्र कर्म तावत् प्रसिद्धम् । नोकर्मस्वरूपं निरूप्यते-औदारिकवैक्रियिकाहारकशरीरत्रयस्य षट्पर्याप्तीनाञ्च योग्यपुद्गलानामादानं नोकर्म ।
- भावजीवो द्विप्रकारः-आगमभावजीव-नोआगमभावजीवभेदात् । तत्रागमभावजीवप्राभृतविषयोपयोगाविष्टः परिणत आत्मा आगमभावजीवः कथ्यते । मनुष्यजीव५ प्राभृतविषयोपयोगसंयुक्तो वाऽऽत्मा आगमभावजीवः कथ्यते । नोआगमभावजीवस्वरूपं निरूप्यते-जीवनपर्यायेण समाविष्ट आत्मा नोआगमभावजीवः । मनुष्यजीवपर्यायेण वा समाविष्ट आत्मा नोआगमभावजीवः कथ्यते ।
एवमजीवास्तवबन्धसंवरनिर्जरामोक्षाणां षण्णां सम्यग्दर्शनज्ञानचारित्राणां त्रयाणाञ्च नामादिनिक्षेपविधान संयोजनीयम् । तत्किमर्थम् ? अप्रस्तुतनिराकरणार्थ प्रस्तु१० तस्य नामस्थापनाजीयोदेर्निरूपणार्थं च ।
...... ननु 'नामस्थापनाद्रव्यभावतो न्यासः' इति सूत्रं क्रियताम् , तच्छन्दग्रहणं किमर्थम् ? साधूक्तम् भवता; तच्छन्दग्रहणं सर्वसमहणार्थम् । तच्छन्दं विना प्रधानभूतानां सम्यग्दर्शनज्ञानचारित्राणामेव न्यासविधिः स्यात्, तद्विषयाणां जीवादीनाम
प्रधानानां न्यासविधिर्न स्यात्। तच्छब्दग्रहणे सति समर्थतया प्रधानानामप्रधानानाञ्च १५ न्यासविधिनिषेछु न शक्यते।
__अथ 'नामादिप्रस्तीर्णाधिकृततत्त्वानामधिगमः कुतो भवति ?' इति प्रश्ने सूत्रमिदंमुच्यते
प्रमाणनयैरधिगमः ॥६॥ प्रमाणे च नयाश्च प्रमाणनयाः, तैः प्रमाणनयैः कृत्वा अधिगमः नामादिनिक्षेप२०. ब्रिधिकथितजीवादिस्वरूपपरिज्ञानं भवति । ते प्रमाणे नयाश्च वक्ष्यन्ते । तत्र प्रमाण द्विप्रकारम्-स्वपरार्थभेदात्। तत्र स्वार्थ प्रमाणं श्रुतरहितम् । श्रुतं तु स्वार्थ परार्थं च भवति । ज्ञानात्मकं श्रुतं स्वार्थम् , वचनात्मकं परार्थम् । वचनविकल्पास्तु नया उच्यन्ते ।
___ ननु नयशब्दः अल्पस्वरः प्रमाणशब्दो बहुस्वरः, “अल्पस्वरतरं ता पूर्वम्" [का० २।५।१२] इति वचनात्-नयशब्दस्य कथं पूर्वनिपातो न भवति ? साधूक्तं भवता । २५ तत्रैवापवादभूतं "यच्चार्चितं द्वयोः" [ का० २।५।१३ ] इति सूत्रं वर्तते । तेन प्रमाणस्या
चिंतत्वात् पूर्वनिपातः । अभ्यर्चितं तु सर्वथा बलीयः। प्रमाणस्यार्चितत्वं कस्मात् ? नयानां निरूपणप्रभवयोनित्वात्। प्रमाणेनार्थ ज्ञात्वार्थावधारणं नय उच्यते । तेन सकलादेश
१ "उक्तं हि-अवगयणिवारणडं पयदस्स परूवणाणिमित्तं च । संसयविणासपर्छ तच्चत्थवधारण; च ।।"-ध० डी० भा० १ पृ०३१ । भक० टि. पृ० १५३ । २-जीवादिनि-आ०, ब०, दु०६३-नानाञ्च न्या-आ०, ब०, द०। ४-विधि निषेधं कर्तुं शक्यते पा०, ब०, द... ५ सूत्रमुआ०, ०।६ प्रमाणं द्विविधं स्वार्थ परार्थञ्च"-स. सि. १६ जावइया क्यणवहा सवइया चेव होति णयवाया ।"-सन्मति ० ३।१७। ४.अल्पस्वरं तनां च पूर्व-आ० ० ०। "तथा चोकं सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीनः"-स०सि०.३६. . .
For Private And Personal Use Only