________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१॥५]
प्रथमोऽध्यायः अथ सम्यग्दर्शनादिजीवादिव्यवहारव्यभिचारप्रतिषेधनिमित्तं सूत्रमुच्यते
नामस्थापनाद्रव्यभावतस्तन्न्यासः॥५॥ नाम च स्थापना च द्रव्यं च भावश्च नामस्थापनाद्रव्यभावाः, तेभ्यो नामस्थापनाद्रव्यभावतः, तेषां सम्यग्दर्शनादीनां जीवादीनाश्च न्यासः प्रमाण ययोनिक्षेपः तच्यासः । अस्यायमर्थः-अतद्गुणे वस्तुनि संव्यवहारप्रवर्तननिमित्तं पुरुषकारात् हठात् ५ नियुज्यमानं 'संज्ञाकर्म नामकर्म कथ्यते । अतद्गुणे वस्तुनीति कोऽर्थः ? न विद्यन्ते शब्दप्रवृत्तिनिमित्तास्ते जगत्प्रसिद्धा जातिगुणक्रियाद्रव्यलक्षणा गुणा विशेषणानि यस्मिन् वस्तुनि तद्वस्तु 'अतद्गुणम्' तस्मिन् अतद्गुणे । तदुक्तम्_ "द्रव्यक्रियाजातिगुणप्रभेदैर्ड वित्थंकर्तृ द्विजपाटलादौ ।
शब्दप्रवृत्ति मुनयो वदन्ति चतुष्टयी शब्दविदः पुराणाः ॥ १॥ [ ] १० ... काष्ठकर्मणि 'पुस्तकर्मणि लेपकर्मणि अक्षनिक्षेपे। कोऽर्थः ? सारिनिक्षेपे वराटकादिनिक्षेपे च सोऽयं मम गुरुरित्यादि स्थाप्यमाना या सा स्थापना कथ्यते । गुणैर्वृतं मत प्राप्तं द्रव्यम्, गुणान वा द्रुतं गतं प्राप्तं द्रव्यम् , गुणैर्दोष्यते द्रव्यम्, गुणान्वा द्रोष्यतीति द्रव्यम् । द्रव्यमेव वर्तमानपर्यायसहितं भाव उच्यते ।
तथा हि-कोऽर्थः ? नामस्थापनाद्रव्यभावान् दर्शयति-नामजीवः, स्थापनाजीवः, १५ द्रव्यजीवः, भावजीवश्चेति चतुर्विधो जीवशब्दो न्यस्यते । जीवनगुणं विनापि यस्य कस्यचित् जीवसंज्ञा विधीयते स नामजीव उच्यते । अक्षनिक्षेपादिषु जीव इति वा मनुष्यजीव इति वा व्यवस्थाप्यमानः स्थापनाजीव उच्यते । सारिचालनसमये 'अयमश्वः' 'अयं गजः' 'अयं पदातिः' इति जीवस्थापनैव वर्तते ।
द्रव्यजीवो द्विप्रकार:-आगमद्रव्यजीव-नोआगमद्रव्यजीवभेदात् । तत्र जीव- २० प्राभृतज्ञायी मनुष्यजीवप्राभृतज्ञायी वानुपयुक्तो निःकार्य आत्मा आगमद्रव्यजीव उच्यते । नोआगमद्रव्यजीवनिप्रकारः-ज्ञायकशरीर-भावि-तद्व्यतिरिक्तभेदात् । तत्र ज्ञायकशरीरं त्रिकालगोचरं यत् ज्ञातुः शरीरं तत् ज्ञायकशरीरमुच्यते । सामान्यत्वेन नोआगमद्रव्यभाविजीवो न विद्यते । कस्मात् ? जीवनसामान्यस्य सदैव विद्यमानत्वात् । विशेषापेक्षया तु नोआगमद्रव्यभाविजीवस्तु विद्यत एव । कोऽसौ विशेषः ? कश्चित् जीवो गत्यन्तरे २५ स्थितो वर्तते,स मनुष्यभवप्राप्तिप्रति सम्मुखो मनुष्यभाविजीव उच्यते। अथवा, यदाजीवादिप्राभृतं न जानाति अग्रे तु ज्ञास्यति तदा भाविनोआगमद्रव्यजीव उच्यते । तद्व्यतिरिक्तः
१-नयनि-द० । २ पुरुषाकारात् भा०, २०, ३०, द०। ३ संशा नामकर्म २० । " "नामजात्यादियोजना । यहच्छाशब्देषु नाम्ना विशिष्टोऽर्थ उच्यते डित्य इति । जातिशब्देषु जाल्या गौरयमिति, गुणशब्देषु गुणेन शुक्ल इति । क्रियाशब्देषु क्रियया पाचक इति । द्रव्यशब्देषु द्रव्येण दण्डी विषाणीति ।" -प्र० समु० टी० ॥३। ५ डवित्यः काठमयो मृगः। काष्ठादिद्रव्य. निमित्तको डवित्थ इति, करोतिक्रियानिमित्तकः कर्तेति, द्विजस्वजातिनिमित्तको द्विज इति, ईषद्रक्तगुणनिमित्तकः पाटल इति व्यवहारः। ६ दुहितुकादिसूत्रचीवरादिविरचिते। ७ गोमयादिना केपे ।
For Private And Personal Use Only