________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्ती
[N अथ 'कितान तत्त्वम् , यस्य श्रद्धानं सम्यग्दर्शनं भवति ?' इति प्रश्ने सूत्रमिदमुच्यतेजीवाजोवाऽऽस्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥ ४॥
जीवश्चाजीवश्चाऽऽलवश्व बन्धश्च संवरश्च निर्जरा च मोक्षश्च जीवाजीवाऽऽस्रवबन्धसंघरनिर्जरामोक्षाः, एते सप्त पदार्थाः तत्त्वं भवति । तत्र ज्ञानादिभेदेनानेकप्रकारा चेतना, ५ सा लक्षणं यस्य स जीव उच्यते । यस्य तु ज्ञानदर्शनादिलक्षणं नास्ति स पुद्गलधर्माधर्मा
ऽऽकाशकाललक्षणोऽजीवः । शुभाशुभकर्मागमनद्वारलक्षण आस्रव उच्यते । आत्मनः कर्मणश्च परस्परप्रदेशानुप्रवेशस्वभावो बन्धः । आस्रवनिरोधरूपः संवरः । एकदेशेन कर्मक्षयो निर्जरा । सर्वकर्मक्षयलक्षणो मोक्षः।
सर्व फलं जीवाधीनं तेन जीवस्य ग्रहणं प्रथमम् । जीवस्योपकारकोऽजीवः, तेन १० जीवानन्तरमजीवग्रहणम् । जीवाजीवोभयगोचरत्वात् तत्पश्चादास्रवोपादानम् । आस्रव
पूर्वको बन्धो भवतीति कारणात् आस्रवादनन्तरं बन्धस्वीकारः । बन्धप्रतिबन्धकः संवरः, तेन बन्धादनन्तरं संवराभिधानम् । संवृतस्य निर्जरा भवतीति कारणात् संवरानन्तरं निर्जराकथनम् । मोक्षस्त्वन्ते प्राप्यते तेन मोक्षस्याभिधानमन्ते कृतम् ।
आस्रवबन्धयोरन्तर्भावात् पुण्यपापपदार्थद्वयस्य ग्रहणं न कृतम् । एवं चेदान१५ वोऽपि जीवाजीवयोरन्तर्भवति, तद्ग्रहणमप्यनर्थकम् ; तन्नः इह मोक्षशास्त्रे प्रधानभूतो मोक्षः, स तु अवश्यमेव वक्तव्यः । मोक्षस्तु संसारपूर्वको भवति । संसारस्य मुख्यहेतुरासबो बन्धश्च । मोक्षस्य मुख्य कारणं संवरो निर्जरा च । तेन कारणेन प्रधानहेतुमन्तौ संसारमोक्षौ, संसारमोक्षलक्षणफलप्रदर्शनार्थमास्रवादयः पृथग्व्यपदिश्यन्ते । तत्रास्रव
बन्धयोः फलं संसारः, संवरनिर्जरयोः फलं मोक्षः, हेतुहेतुमतोः फलत्वेन निदर्शनम् , दृष्टा२० न्तभूताश्चत्वारः तेषां चतुर्णामारवादीनां पृथव्यपदेशो विहितः विशेषेण प्रदर्शनार्थम् ।
यदि संसारमोक्षयोर्मध्य एते चत्वारोऽन्तर्भवन्ति तहि पृथक् किमिति व्यपदिश्यन्ते ? साधूक्तं भवता, सामान्येऽन्तर्भूतस्यापि विशेषस्य भिन्नोपादान कार्यार्थ हि दृश्यते, यथा क्षत्रियाः समागताः, तन्मध्ये शूरवर्मापि समागत इत्युक्ते "शूरवर्मा कि
क्षत्रियो न भवति ? तथा आत्रवादयश्च । २५ जीवादयः सप्त द्रव्यवचनानि, तत्त्वशब्दस्तु भाववाची", तेषां तस्य च समानाधिकरणता कथं घटते-'जीवादयः किल तत्त्वम्' इति ? सत्यम् । अव्यतिरेकतया तत्त्व
भावाध्यारोपतया च समानाधिकरणता भवत्येव । “लिङ्गसङ्घयाव्यतिक्रमस्तु न दूयते, अजहल्लिङ्गादित्वात् । एवं 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यत्रापि योजनायम् ।
... किं तत्वं द० । २-ते स्वामिना आ०, ब०, ६० । ३ भवन्ति ता० । ४-नालक्ष-भा०, २० । ५ स तु व०। ६ परस्परं प्र-३० । ७ आश्रवान-द० । ८ मुख्यका-1०, ६० । । दृष्टान्ताश्व१०,०।16-हद । ११ शूरवर्मापि किं .। -वाची समा-ता. । -वाचकः तेमा., द., ०।१३-भावाध्याहारोपचारतया आ०, २०, २०। १४ मोदाः इत्यत्र पुल्लिङ्गस्वं महसन 'तत्वम' इत्यत्र च नसकैकवचनत्वम इति व्यतिक्रमः।
For Private And Personal Use Only