SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३] प्रथमोऽध्यायः मानसागन्तुवेदनाप्रसारात् संसाराद्भयं संवेगः । सर्वेषु प्राणिषु चित्तस्य दयार्द्रत्वमनुकम्पा । आप्तश्रुतंव्रततत्त्वेषु अस्तित्वयुक्तं मन आस्तिक्यमुच्यते । तथा चोक्तम् "यद्रागादिषु दोषेषु चित्तवृत्तिनिवहेणम् । तं प्राहुः प्रशमं प्राज्ञाः समस्तवतभूषणम् ॥१॥ शारीरमानसागन्तुवेदनाप्रभवाद्भवात् । स्वमेन्द्र जालसङ्कल्पानीति : संवेग उच्यते ॥ २ ॥ सस्वे सर्वत्र चित्तस्य दयार्द्रत्वं दयालवः । धर्मस्य परमं मूलमनुकम्पां प्रचक्षते ।। ३ ।। आप्ते ते व्रते तत्त्वे चित्तमस्तित्वंसंयुतम् । आस्तिक्यमास्तिकैरुक्तं मुक्तियुक्तिधरे नरे ॥ ४ ॥ : [यश० उ० पृ० ३२३] इति । वीतरागं सम्यग्दर्शनम् आत्मविशुद्धिमात्रम् । 'अंथेदृशं सम्यग्दर्शनं जीवादिपदार्थगोचरं कथमुत्पद्यते' इति प्रश्ने सूत्रमिदं ब्रुवन्ति-- तनिसर्गादधिगमादा ॥३॥ तत्-सम्यग्दर्शनम् , निसर्गात् स्वभावात् उत्पद्यते । वा-अथवा, अधिगमात्-१५ अर्थावबोधात् उत्पद्यते । ननु निसर्गजं सम्यग्दर्शनम् अर्थाधिगमं प्राप्योत्पद्यते, 'न वा ? यदि अर्थाधिगम प्राप्योत्पद्यते; तर्हि तदपि निसर्गजमपि अधिगमजमेव भवति, अर्थान्तरं न वर्तते, किमर्थ सम्यग्दर्शनोत्पत्तेद्वैविध्यम् ? अविज्ञाततत्त्वस्य अर्थश्रद्धानं न सङ्गच्छत एव । सत्यम् । निसर्गजेऽधिगमजे च सम्यग्दर्शनेऽन्तरङ्गं कारणं दर्शनमोहस्योपशम दर्शनमोहस्य क्षयो २० वा दर्शनमोहस्य क्षयोपशमो वा सदृशमेव कारणं वर्तते । तस्मिन् सदृशे कारणे सति यत्सम्यग्दर्शनं बाह्योपदेशं विनोत्पद्यते तत् सम्यग्दर्शनं निसर्गजमुच्यते । यत् सम्यग्दर्शनं परोपदेशेनोत्पद्यते तदधिगमजमुच्यते । नैसर्गिकमपि सम्यग्दर्शनं गुरोरक्लेशकारित्वात् स्वाभाविकमुच्यते न तु गुरूपदेशं विना प्रायेण तदपि जायते । ..: ननु तच्छब्दस्य ग्रहणं किमर्थम् ? "अनन्तरस्य विधिः प्रतिषेधो वा" [पा० २५ महा० १२४७ ] इति परिभाषणात 'निसर्गादधिगमाद्वा' ईदृशेनैव सूत्रेण अनन्तरं सम्यग्दर्शनमेव लभ्यते तेन सूत्रे तच्छब्दस्य वैयर्थ्यम् । सत्यम् ; यथा सम्यग्दर्शनमनन्तर वर्तते तथा मोक्षमार्गशब्दोऽपि प्रत्यासन्नो वर्तते, “प्रत्यासत्तेः प्रधान बलीया" [ ] इति परिभाषणात् मोक्षमार्गो निसर्गादधिगमाद्वा भवतीत्यर्थ उत्पद्यते । तच्छब्देन तु सम्यग्दर्शनमेवाकृष्यते तेन तच्छन्दग्रहणे दोषो नास्ति ।। -तत-व० । २ "प्रभवाद्भयात्"-यशः । ३-भातिः ता०। ४-त्वसंस्तुतम् ता०, व० । ५ अथेद स-आ०, ०। ६ ब्रुवन्त्याचार्याः मा०, ८०, ब० । न च आ९, ब०, २०; प० । 'नमोहम्य नयो वा' इति नास्ति ता । ९ सदशका-ब। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy