SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्तौ [११-२ अथ येन समस्तेन मोक्षो भवति तत्किम् ?' इति प्रश्ने सूत्रमिदमाचार्याः प्राहुः सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १॥ सम्यकशब्दः प्रत्येकं प्रयुज्यते। तेन सम्यग्दर्शनं च सम्यग्ज्ञानं च सम्यक्चारित्रं च सम्यग्दर्शनज्ञानचारित्राणि, समीचीनानि सम्यग्दर्शनज्ञानचारित्राणीत्यर्थः । तत्र जीवादि५ पदार्थानां यथावत् प्रतिपत्तिविषयं श्रद्धानं सम्यग्दर्शनम् । येन येन प्रकारेण जीवादयः पदार्था व्यवस्थिता वर्तन्ते तेन तेन प्रकारेण मोहसंशयविपर्ययरहितं परिज्ञानं सम्यरज्ञानम् । मोह इति अनध्यवसाय पर्यायः। संशयः सन्देहः । विपर्ययो विपरीतत्वम् । तैः रहितं सम्यग्ज्ञानमित्यर्थः । संसारहेतुभूतक्रियानिवृत्त्युद्यतस्य तत्वज्ञानवतः पुरुषस्य कर्मा दानकारणक्रियोपरमणमज्ञानपूर्वकाचरणरहितं सम्यक्चारित्रम् । एतानि समुदितानि १० मोक्षस्य मार्गो भवति । अथ सम्यग्दर्शनलक्षणोपलक्षणार्थ सूत्रमिदं निर्दिशन्ति सूरयः तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥२॥ योऽर्थो यथा व्यवस्थितस्तस्यार्थस्य तथाभावो भवनं तत्त्वमुच्यते । अर्यते गम्यते ज्ञायते निश्चीयते इत्यर्थः । “उषिकुषिगर्तिभ्यस्थः।" [कात० उ० ५।६३ ] तत्त्वेन अर्थः १५ तत्त्वार्थः। तत्त्वमेव वाऽर्थस्तत्त्वार्थः। तत्त्वार्थस्य परमार्थभूतस्य पदार्थस्य 'श्रद्धा रुचिः तत्त्वार्थश्रद्धानं सम्यग्दर्शनं भवतीति वेदितव्यम् । तत्त्वार्थस्तु जीवादिर्वक्ष्यते । न तु अर्थशब्देन प्रयोजनाभिधेयधनादिकं ग्राह्यम् , तच्छद्धानस्य मोक्षप्राप्तेरयुक्तत्वात् । अर्थशब्दस्यानेकार्थत्वम् । तदुक्तम् "हतौ प्रयोजने वाच्ये निवृत्तौ विषये तथा। प्रकारे वस्तुनि द्रव्ये अर्थशब्दः प्रवर्तते ॥"[ ] ननु दर्शनमवलोकनं श्रद्धानं कथं घटते ? सत्यम् ; धातूनामनेकार्थत्वात् । रुच्यर्थे दृशिधातुर्वर्तते । 'दृशिर् प्रेक्षणे' प्रेक्षणार्थस्तु प्रसिद्धोऽप्यर्थोऽत्र मोक्षमार्गप्रकरणे त्यज्यते। तत्त्वार्थश्रद्धानमात्मपरिणामः सिद्धिसाधनं घटते । स तु परिणामो भव्यात्मन एव भवति । प्रेक्षणलक्षणस्त्वर्थः चक्षुरादिनिमित्तो वर्तते । स तु सर्वेषां संसारिणां जीवानां २५ साधारणोऽस्ति । स मोक्षमार्गावयवो न सङ्गच्छते। तत्सम्यग्दर्शनं द्विप्रकारम्-सरागम् , वीतरागञ्च । तत्र सरागं सम्यग्दर्शन प्रशमसंवेगानुकम्पास्तिक्यैरभिव्यज्यते। तत्र रागादिदोषेभ्यश्चेतोनिवर्तनं प्रशमः । शारीर 1-यः संश-आ०, २०, द० । २-रममज्ञा-बा०, ब० ब०, २० । ३ भवन्ति ता० । ४ भवो ता०। भवं त-द० । ५ उषिअषिग-भा०, २०। उषिऋषि-द०। ६ श्रद्धार्थ रू-ता०। ७ ननु अ-भा०, ब० । ८ प्रयोजनादिश्रद्धानस्य । ९ तुलना-"अर्थोऽभिधेयरैवस्तु प्रयोजननिवृत्तिषु"-अमरः, भाममा० । "अर्थः प्रयोजने वित्त हेत्वभिप्रायवस्तुषु । शब्दाभिधेये विषये स्यानिवृत्तिप्रकारयोः ॥"-विश्वको । १० सम्यग्दर्शनं । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy