________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः केचित्तु आत्मनिर्वाणं प्रदीपनिर्वाणंकल्पं परिकल्पयन्ति । तैरात्मनिर्वाणस्य खरविषाणकल्पनासदृशी परिकल्पना स्वयमाहत्य समर्थिता, हठात् 'समर्थितेत्यर्थः। यद्येवं मोक्षस्वरूपं मिथ्या, तर्हि परमार्थ मोक्षस्वरूपं किम् ? तदने कथयिष्यामो वयम् । ____ मोक्षस्य प्राप्तेरुपायमपि प्रवादिनो विसंवदन्ते। 'केचिच्चारित्रनिरपेक्षं ज्ञानमेव मोक्षोपायं मन्वते । केचित् श्रद्धानमात्रमेव मोक्षोपायं जानन्ति । केचित् ज्ञाननिरपेक्षं ५ चारित्रमेव मोक्षोपायं जल्पन्ति । तदपि मिथ्या । व्यस्तैानादिभिर्मोक्षप्राप्तरुपायो न भवति । यथा कश्चिद् व्याधिपराभूतो व्याधिविनाशकभेषजज्ञानेनैवोल्लाघो न भवति भेषजोपयोग विना, तथा चारित्रहीनो ज्ञानमात्रान्मोक्षं न लभते । यथा कश्चिदौषधमाचरन्नपि औषधस्वरूपमजानन् उल्लाघो न भवति तथाऽऽचारवानप्यात्मज्ञानरहितो" मोक्षं न लभते । यथा कश्चिदौषधरुचिरहितः तत्स्वरूपं जानन्नप्यौषधं नाचरति सोप्यु- १० ल्लाघो न भवति, तथात्मा श्रद्धानरहितो ज्ञानचारित्राभ्यां मोक्षं न लभते । तदुक्तम्
"ज्ञानं पङ्गौ क्रिया चान्धे निःश्रद्धे नार्थकृवयम् ।।
ततो ज्ञानक्रियाश्रद्धात्रयं तत्पदकारणम् ॥" [ यश० उ० पृ० २७१ ]
१ बौद्धाः । “यस्मिन् न जातिर्न जरा न मृत्युन व्याधयो नाप्रियसंप्रयोगः । नेच्छा विपन्न प्रियविप्रयोगः क्षेमं पदं नैष्ठिकमच्युतं तत् ॥ दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काचिद्विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् । एवं कृती निर्वृतिमभ्युपेतो नैवावनि गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ॥” -सौन्दर० १६।२७-२९ । प्रदीपत्येव निर्वाणं विमोक्षस्तस्य चेतसः।"-प्र० वार्तिकाल० ॥४५। २-णं परि-व०। ३-मावस्य भा०, द०,०। ४ समर्थ्यते इ-व.। ५ ११४, १०११ सूत्रयोः । ६ नैयायिकादयः । ७ मन्यन्ते भा०, २०, व, द.। मीमांसकाः। ९ तैर्मा-आ० ब०, द०। १०-प्यात्मा ज्ञा-भा०, ५०, द०। : ११-तो आत्मानादिज्योतिःस्वरूपममन्यमानो मोक्षं लभते । कस्मात् ? आत्मनोऽनादिज्योतिस्त्वात्, आत्मा आत्मानमनादिज्योतिस्त्वं मन्यमानो मोक्षं लभते यथाभा०, द०, ब० । १२ "तथा हि-सकलनिष्कलाप्तप्राप्तमन्त्रत-त्रापेक्षदीक्षालक्षणात् श्रद्धामात्रानु. सरणान्मोक्ष इति सिद्धान्तवैशेषिकाः। द्रव्यगुणकर्मसामान्यसमवायान्त्यविशेषाभावाभिधानानां साधर्म्यवैधावबोधतन्त्रात् ज्ञानमात्रान्मोक्ष इति तार्किकवैशेषिकाः । त्रिकालभस्मोद्धूलनेढ्यालड्डुकप्रदान प्रदक्षिणीकरणात्मविडम्बनादिक्रियाकाण्डमात्रानुष्ठानादेव मोक्ष इति पाशुपताः । सर्वेषु पेयापेयभक्ष्याभक्ष्यादिषु निश्चलतत्त्वान्मोक्ष इसि कालाचार्यकाः। तथा च चित्रिकमतोक्तिः-मदिरामोदमेदुरवदनसरसप्रसन्नहृदयः सव्यपार्बसमीपविनिवेशितशक्तिः शक्तिमुद्रासनधरः स्वयमुमामहेश्वरायमाणो नित्यामन्त्रण पार्वतीश्वरमाराधयेदिति मोक्षः। प्रकृतिपुरुषयोविवेकाख्यातेर्मोक्ष इति साङ्खयाः। नैराम्यादिनिवेदितसम्भावनातो मोक्ष इति दशबलशिष्याः । अङ्गाराक्षनादिवत् स्वभावादेव कालुष्योत्कर्षप्रवृत्तस्य चित्तस्य न कुतश्रिदिशुद्धिरिति जैमिनीयाः । सति धर्मिणि धर्माश्चिन्स्यन्ते ततः परलोकिनोऽभावात् परलोकाभावे कस्यासौ मोक्ष इति समवाससमस्तनास्तिकाधिपत्या बार्हस्पत्याः। परमब्रह्मदर्शनवशादशेषभेदसंवेदना:विद्याविनाशान्मोच इति वेदान्तवादिनः।"-. भारक. ११ ॥
For Private And Personal Use Only