SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वार्थवृत्ती तस्य नेतारं प्रापकं नायकम् । पुनरपि कथम्भूतम् ? भेत्तार चूर्णीकर्तारं मूलादुन्मूलकमित्यर्थः। केषाम् ? कर्मभूभृताम् । कर्माणि ज्ञानावरणादीनि, तान्येव भूभृतः पर्वताः कर्मभूभृतः, तेषां कर्मभूभृतां कर्मगिरीणाम् । भूयोऽपि किंविशिष्टम् ? ज्ञातारं सम्यक् स्वरूपज्ञायकम् । केषाम् ? विश्वतत्त्वानाम् , विश्वानि समस्तानि तानि च तानि तत्त्वानि ५ विश्वतत्त्वानि, तेषां विश्वतत्त्वानाम् । अत्रायं भावः-सर्वज्ञवीतरागशब्दोऽध्याहारेण लब्धः, तस्यानन्तगुणस्यासाधारणगुणा मुख्यत्वेन मोक्षमार्गनेतृत्व कर्मभूभृद्धेतृत्वविश्वतत्त्वज्ञातृत्वलक्षणास्त्रयः, तत्प्राप्तये इत्यर्थः। ___ अथ द्वैयाकः प्राह-यद्यात्मने हितो मोक्षः, किं तर्हि तस्य स्वरूपम् ? तस्य च मोक्षस्य प्राप्तेरुपायः कः ? "भगवानाह-मोक्षस्येदं स्वरूपम् । इदं किम् ? जीवस्य १० समस्तकर्ममलकलङ्करहितत्वम् , अशरीरत्वम् , अचिन्तनीयनैसर्गिकज्ञानादिगुणसहिता व्यावाधसौख्यम् , ईदृशमात्यन्तिकमवस्थान्तरं मोक्ष उच्यते । स तु मोक्षोऽतीव परोक्षः छद्मस्थानां प्रवादिनाम् । ते तु तीर्थकरम्मन्यास्तीर्थकरमात्मानं मन्यन्ते न तु ते तीर्थकराः परस्परविरुद्धार्थाभिधायित्वात, तेषां वाचः मोक्षस्वरूपं न स्पृशन्ति । कस्मात् ? युक्त्याभासनिबन्धना यस्मात् । कस्माद्युक्त्याभासनिबन्धनास्तद्वाचः ? १५ यतः केचित् चैतन्यं पुरुषस्य स्वरूपमिति परिकल्पयन्ति । तच्चैतन्यं ज्ञेयाकारपरि च्छेदपराङ्मुखम् । तच्चैतन्यं विद्यमानमप्यविद्यमानम् । किंवत् ? खरविषाणवत् । कस्मात् ? निराकारत्वात् । कोऽर्थः ? स्वरूपव्यवसायलक्षणाकारशून्यत्वात् । . “केचिञ्च पुरुषस्य बुद्ध्यादिवैशेषिकगुणोच्छेदो मोक्ष इति परिकल्पयन्ति । तदपि परिकल्पनं मिथ्यैव । कस्मात् ? विशेषलक्षणशून्यस्य वस्तुनोऽवस्तुत्वात् । १ च तत्वानि आ० । २-णस्य गुणा ता० । ३ द्वैयायकः आ०, ब० । द्वैवायानामकः व०। द्वैपायकः द०। ४ यथात्म-द०। ५ स भग-आ०, ब०। ६-य स्वाभाविकनै-३० । -यं नै-द० । ७ मोक्षं स्व-ता० । ८ सांख्याः । “चैतन्यं पुरुषस्य स्वरूपमिति"-योगमा० १।९ । “तदा द्रष्टुः स्वरूपेऽवस्थानम्" -योगसू० १३। ९ "तावेतौ भोगापवर्गों बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्यते इति ? यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते स इति तस्य, फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तस्य फलस्य भोक्तेति, बुद्धरेव पुरुषार्थापरिसमाप्तिर्बन्धः तदर्थावसायो मोक्ष इति । एतेन ग्रहणधारणोहापोहतत्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः स हि तत्फलस्य भोक्तेति ।"-योगभा० ॥४।३० वैशेषिकाः । “नवानामात्मविशेषगुणानामत्यन्तोच्छि. त्तिर्मोक्षः ॥"-प्रश० व्यो० पृ० ६३८ । “आत्यन्तिकी दुःखव्यावृत्तिरपवणे न सावधिका द्विविधदुःखावमर्शिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखावमाद् अत्यन्तग्रहणेन च सर्वात्मना तद्वियोगाभिधानात् । नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां निर्मूलोच्छेदोऽपवर्ग इत्युक्तं भवति । यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्ति वकल्प्यते ॥"-न्यायम० । पृ. ५०८। For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy